________________
तत्त्वन्यायविभाकरे
[ चतुर्थकिरणे देहोच्छ्रासौ किमताभ्यां पर्याप्तिभ्यां प्रयोजनम् ? अत्रोच्यते पुद्गलानां गृहीतानामिहात्मना । साध्या परिणतिदेहतया तन्नामकर्मणा । आरब्धाङ्गसमाप्तिस्तु तत्पर्याप्त्या प्रसाध्यते । एवं भेदः साध्यभेदाइहपर्याप्तिकर्मणो" रिति । विशेष्यविशेषणपदकृत्यं पूर्ववदेव । वैक्रियशरीर
नामकर्मादावतिव्याप्तिवारणायौदारिकशरीरयोग्येति । ग्रहणमन्तरेण परिणमनासम्भवेन गृही5 तेत्युक्तम् । शरीरतयेत्यनुक्तावौदारिकशरीरबन्धनेऽतिव्याप्तिरिति तस्योपादानम् । बन्धनस्य
गृहीतानां गृह्यमाणानाश्चौदारिकादिशरीरवर्गणापुद्गलानां परस्परसंश्लेषमात्रकारित्वादिति । अस्य च जघन्या परा च स्थितिः पञ्चेन्द्रियजातिवद्बोध्या । अथ वैक्रियशरीरनामाहवैक्रियेति । विचित्रशक्तिकद्रव्यनिर्मापितं बहुतरद्रव्यं सूक्ष्मं घननिचयं च वैक्रियं । तथा च
यस्य कर्मण उदयात् वैक्रियवर्गणापुद्गलान् गृहीत्वा वैक्रियशरीरत्वेन परिणमयति तद्वैक्रिय10 शरीरनामकर्मेति भावः, पदकृत्यं पूर्ववत् । परा स्थितिरस्य पञ्चेन्द्रियजातिवत् । जघन्या
तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधाऽन्तर्मुहूर्त्तम् । आहारकशरीरमाचष्टे-आहारकेति । शुभतरशुक्लविशुद्धद्रव्यवर्गणाप्रारब्धं प्रतिविशिष्टप्रयो जनायाऽन्तर्मुहूर्तस्थितिकमाहारकं शरीरं सूक्ष्मपरिणामपरिणतं बहुतरपुद्गलद्रव्यारब्धश्च ।
सर्वे लक्षणविचाराः प्राग्वद्भाव्याः। अस्योत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा 15 त्वन्तर्मुहूर्त्तम् , जघन्यापि तथैव ।।
तैजसशरीरमभिदधाति
तैजसवर्गणागतपुद्गलानां शरीरतया परिवर्तकं कर्म तैजसशरीरम् । कार्मणवर्गणागतपुद्गलानां शरीरत्वेन परिवर्तनहेतुः कर्म कार्मणशरीरम् ।
इमानि पश्चदेहानि ॥ 20 तैजसवर्गणेति । तेजोगुणोपेतद्रव्यवर्गणासमारब्धं तैजसशरीरं, यदा यस्योत्तर
गुणलब्धि रुत्पन्ना भवति तदा रोषप्रसन्नताप्रसङ्गे शरीरमिदमुष्णशीतगुणं शापानुग्रहसामर्थ्याविर्भावकश्च भवति, यदा तु न सोत्पन्ना तदा तु केवलं सतताहृताहारपाचकं भवति । लक्षणं पदकृत्यश्च पूर्ववत् । अस्य परा जघन्या च स्थितिः पञ्चेन्द्रियवत् ।
अथ कार्मणस्वरूपमाह-कार्मणवर्गणेति । जीवप्रदेशैर्दुग्धाम्बुवदन्योन्यं श्लिष्टा अनन्ता 25 ये कर्मप्रदेशास्तदात्मकं कर्मिणं निखिलशरीरहेतुभूतं भवान्तरगतौ तैजसशरीरयुतं सज्जीव
.१ यद्यप्यत्र बन्धनसंघातनामकर्मणी शरीरनामकर्मणो न प्रकृस्यन्तरमिति मत्वा न पृथगुपन्यस्ते, तथापि परस्परावियोगस्याविवरभावेनैकत्वरूपस्य तत्कार्यस्य दर्शनतो भवत एवैते इत्यतिव्याप्तिरादर्शिता ॥ २ इदञ्च कर्माण्येव कार्मणमिति व्युत्पत्त्या, तथा च न कर्मभ्यः पृथक्कार्मणमत्र । कर्मणा निवृत्तं कार्मणमिति विग्रहे वाह कार्मणनामकर्मणस्त्विति ॥