________________
शरीरनामकर्म ]
न्यायप्रकाशसमलङ्कृते ।
I
देवत्वोपलक्षितेति । देवोपपातक्षेत्रं वक्रगत्या गच्छतो जीवस्यानुश्रेणिगतिनियामकानुपूर्वीत्वं लक्षणार्थः । प्राग्वदेव पदानां कृत्यं बोध्यम् । स्थितिरपि परा जघन्या च देवगति - बदेव । इमे इति देवगत्यानुपूर्व्यावित्यर्थः । सुरद्वि इति । विभागवाक्यस्थसुरद्विकपदवाच्ये इति भावः ॥ पचेन्द्रियजातेः स्वरूपमाह - पञ्चेन्द्रियेति । अयं पचेन्द्रिय इति पचेन्द्रियशब्दस्य प्रवृत्तौ निमित्तभूता या सदृशपरिणतिरूपा जातिस्तदात्मक विपाकोदयेन विज्ञेयं यत्कर्म 5 सा पचेन्द्रियजातिरित्यर्थः । पचेन्द्रियत्वजातिसद्भावाद्धि पचेन्द्रियोऽयमिति शब्दः प्रयुज्यते ततस्तादृशजातिरूपविपाकोदयेन यत्कर्म विज्ञायते कारणतया सा पश्चेन्द्रियजातिरिति भावः । जातिनामकर्मेदं संज्ञाव्यवहारनिमित्तजातौ प्रयोजकं न तु द्रव्यात्मकपञ्चेन्द्रियेषु तत्रेन्द्रियपर्याप्तिनामकर्मणः प्रयोजकत्वात् नापि भावात्मकपञ्चेन्द्रियेषु तत्रेन्द्रियावरणक्षयोपशमस्यैव सामर्थ्यात् । तथा च पञ्चेन्द्रियसंज्ञाव्यवहारनिबन्धनजातिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । 10 कालादिवारणाय विशेष्यं, सातादावतिव्याप्तिवारणाय विशेषणम्, जातिप्रयोजकत्वे सति कर्मत्वस्य एकेन्द्रियादिजातिषु सत्त्वात्तद्वारणाय निबन्धनान्तम् । पञ्चपदमप्यत एव । जातिपदानुपादाने पञ्चेन्द्रियाणामपि पञ्चेन्द्रियसंज्ञाव्यवहारनिबन्धनत्वात् तत्प्रयोजकेऽङ्गोपाङ्गनामकर्मणि इन्द्रियपर्याप्तौ चातिव्याप्तिरतस्तदुपादानम्, जातिर्नामाव्यभिचारिणा सादृश्येनैकीकृतोऽर्थः । अस्याः परा स्थितिर्विंशतिसागरोपमकोटी कोट्यः, वर्षसहस्रद्वयमबाधा च । जघन्य 15 तु सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तकालः ॥
अथौदारिकादिशरीरनामकर्मस्वरूपमाख्याति
: ६१ :
औदारिकशरीर योग्यगृहीतपुद्गलानां शरीरतया परिणमनप्रयोजकं कदारिकशरीरम् । वैक्रियपुद्गलानां शरीरत्वेन परिणमनहेतुः कर्म वैक्रियशरीरम् | आहारकपुद्गलानां देहतया परिवर्तनसमर्थं कर्माssहारक- 20 शरीरम् ॥
औदारिकेति । शीर्यत इति शरीरं प्रागवस्थातश्चयापचयाभ्यां प्रतिक्षणं विनाशीत्यर्थः । असारस्थूलद्रव्यवर्गणारब्धमौदारिकं, उत्तरशरीरापेक्षयाऽल्पद्रव्यं स्थूलं शिथिलनिचय । यस्य कर्मण उदयादौदारिकवर्गणापुद्गलान् गृहीत्वौदारिकशरीरत्वेन परिणमयति तत्कर्मोंदारिकशरीरमित्यर्थः । न चैवं शरीरपर्याप्तिरपि तादृशत्वात्तत्रातिव्याप्तिरिति वाच्यम् । गृहीत- 25 पुद्गलानां शरीरतया परिणतेः शरीरनामकर्मणैव साध्यत्वात् आरब्धाङ्गसमाप्तेश्व पर्याप्तिनामकर्मसाध्यत्वेनातिव्याप्त्यभावात् । उक्तञ्च " ननु देहोच्छ्वासनामकर्मभ्यामेत्र सिद्ध्यतः ।
1