________________
: ६० : तत्त्वन्यायविभाकरे
[ चतुर्थकिरणे नुपूर्व्या लक्षणम् । तत्र कर्मत्वानुक्तौ धर्मास्तिकायादावतिव्याप्तिः, वक्रगत्येत्यनुक्तौ ऋजुगत्यैवोत्पत्तिस्थान प्राप्तुरात्मनः श्रेण्यनुसारि गतिनियामकपूर्वायुष्ककर्मण्यतिव्याप्तिरतस्तत्पदम् । तथा च वक्रारम्भकाले पूर्वायुष्कस्य नाशादग्रायुष्कप्राप्तेश्च न तत्र पूर्वायुष्कं गतिनिया
मकं, नाप्यमायुष्कं, गत्यारम्भोत्तरं प्राप्तः, किन्त्वानुपूर्येव तादृशीति न दोषः। जीवस्ये. 5 त्यनुक्तौ पुद्गलानामपि परप्रयोगापेक्षया वक्रगतिसम्भवेन तत्रानुश्रेणिगमनप्रयोजकप्रयोक्त
कर्मण्यतिव्याप्तिः स्यात्तद्वारणाय तस्योपादानम् । न च ऋजुगत्यामिव वक्रगत्यामपि नानुपूर्व्यपेक्षितेति वाच्यम् , पूर्वकायुष एवर्जुगतौ प्रयोजकत्वात् , वक्रगत्यान्तु पूर्वकायुषः क्षीणत्वेनानुपूर्व्या प्रयोजकत्वात् ॥
अथ मानुषानुपूर्वीलक्षणमाह10 मनुष्यत्वोपलक्षिताऽऽनुपूर्वी मनुष्यानुपूर्वी । इमे मनुष्यद्विकशब्दवाच्ये देवत्वपर्यायपरिणतिप्रयोजकं कर्म सुरगतिः ॥
मनुष्यत्वोपलक्षितेति । मानुषोपपातक्षेत्रं गच्छतो जीवस्य श्रेण्यनुसारिगतिनियामकानुपूर्वीत्वं मनुष्यानुपूर्वीलक्षणं । अत्रानुपूर्वीपदं धर्मास्तिकाये, मानुषपदं च देवाद्यानुपू
ामतिप्रसङ्गवारणायोपात्तम् । वक्रगत्येति पदन्त्वसम्भववारणाय । अस्याः परा स्थितिः 15 पञ्चदशसागरोपमकोटीकोट्यः । पञ्चदशवर्षशतान्यबाधा, जघन्या तु सागरोपमस्य द्वौ सप्त
भागौ पल्योपमासंख्येयभागेन न्यूनौ, अन्तर्मुहूर्तश्चाबाधाकालः । मनुजगतिर्मनुजानुपूर्वी च पूर्वोदितविभागवाक्यघटकमनुष्यद्विकशब्दवाच्येत्याह-इमे इति, मनुष्यगतिमनुजानुपूर्व्यावित्यर्थः । देवगतेः स्वरूपमाह-देवत्वेति । देवत्वपर्यायपरिणतिप्रयोजकत्वे सति कर्मत्वं लक्ष
णार्थः । पदकृत्यं मनुजगतिवद्विभावनीयम् । दशसागरोपमकोटीकोट्योऽस्याः परा स्थितिः । 20 दशवर्षशतान्यबाधा, जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्तकालः ॥
देवानुपूर्वीलक्षणमाह
देवत्वोपलक्षिताऽऽनुपूर्वी सुरानुपूर्वी । इमे सुरद्विके । पश्चेन्द्रियशब्दप्रवृतिनिमित्तभूतसदृशपरिणत्यात्मकजातिविपाकोदयवेद्यं कर्म पश्चे25 न्द्रियजातिः ॥
१ तत्रानुपूर्वीनामकर्मणो नोदयः, किन्तु पूर्वकर्मायुरनुभवन्नुत्पत्तिस्थान प्राप्तः पुरस्कृतमायुरासादयतीति भावः ॥२ वकयाऽन्तर्गत्येति शेषः। पूर्वभवोत्तरकालीना तिर्यगाद्युत्तरोत्पत्तिस्थानप्राप्तिपूर्वभाविनी गतिरन्तर्गतिः ॥