________________
आनुपूर्वीकर्म ]
न्यायप्रकाशसमलङ्कृ
: ५९ :
मनुजगतिं लक्षयति मानुषत्वेति, मानुषत्व पर्यायपरिणतिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । आत्मनो हि संसारस्थस्य मानुषत्वदेवत्वनारकत्वतिर्यक्त्वरूपाश्चतुः पयार्या गतिप्रयुक्ताः । तत्र यस्य कर्मण उदयादेकं कवन पर्यायं विहाय मानुषत्व पर्याय परिणामवान् भवति तत्कर्म मनुजगतिरिति भावः । सातादावतिप्रसङ्गवारणाय विशेषणम् । कालादावतिप्रसङ्गभङ्गाय विशेष्यम्, परिणतिप्रयोजककर्मत्वमात्रोक्तौ देवगत्यादावतिव्याप्तिरतो मानुषत्व पर्यायेति । 5 पराभिमतमानुषत्वजातिव्युदासाय पर्यायेति । मानुषत्वपर्यायप्रयोजकत्वे सति कर्मत्वस्य मनुजानुपूर्व्यादौ सत्त्वात्तद्वारणाय परिणतीति, आनुपूर्व्याः परिणामेऽप्रयोजकत्वात्परिणामयोग्यस्यैव तत्स्थानप्रापकत्वादिति । अस्या उत्कृष्टा स्थितिः पञ्चदश सागरोपमकोटी कोट्यः, पञ्चदशवर्षशतान्यबाधा, जघन्या तु सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधात्वन्तर्मुहूर्त्तम् ॥
मनुष्यानुपूर्वी वक्तुकामः प्रथममानुपूर्वीमादर्शयति——
वक्रगत्या स्वस्वोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणि गतिनियामकं कर्म आनुपूर्वी ॥
10
वक्रगत्येति । अयमत्र भावः, जीवानां पुद्गलानाञ्च सर्वदिगवच्छेदेन गतिरस्ति । सा 'च स्वाभिमुखाकाशप्रदेशानां पंक्तिमनुसृत्यैव न विरुद्धदिगवच्छेदेन गतिः । तत्र भवान्तर- 15 संक्रान्त्यभिमुखो जीवो मन्दक्रियावत्त्वात्कर्मणो यानाकाशप्रदेशानवष्टभ्य शरीरवियोगं विदधाति प्रदेशान् तानेवाभिन्दन् देशान्तरं प्रयाति, विश्रेणिगत्यभावात् । त्रिधा च श्रेणिः, एका पूर्वापरायताकाशप्रदेशश्रेणिः, अन्या च दक्षिणोत्तरायता, इतरा तूर्ध्वाध आयता, आलोकान्तम् । तास्वेव जीवानां पुद्गलानाञ्च गतिर्न ता विभिद्य कदाचिदपि ते प्रयान्ति । तत्र जीवः कर्मायत्तत्वाद्भवान्तरप्राप्तौ वक्रां गतिमपि प्रपद्यते भवान्तरसंक्रान्तौ 20 ऋजुवक्रभेदेन गतेद्वैविध्यात् । वक्रगतौ च तावदेकद्वित्रिविग्रहरूपास्त्रिधा गतयो भवन्ति, आद्या द्विसमया, द्वितीया त्रिसमया तृतीया तु चतुस्समया भवति । तत्रर्जुगतौ गच्छतो यथा बलीवर्दस्य न नासारज्जुरपेक्षिता, अपि तु तस्य वक्रतया नेयत्व एव, तथैव ऋज्व्यां गतौ जनिस्थानं प्राप्तुरात्मनो नानुपूर्व्यपेक्षिता, किन्तु वक्रगत्यां प्रवृत्तस्य, तथा च वक्रया गत्या स्वस्वोत्पत्तिस्थानं गच्छतो जीवस्य श्रेण्यनुसारिगतिनियामककर्मत्वमा - 25
१ यद्यपि जीवस्य विश्रेणिगतिरपि मेर्वादिप्रदक्षिणादिकाले दृष्टा तथापि भवान्तरसंक्रमे तथोर्ध्वलोकादधोऽधोलोकादूर्ध्वं तिर्यग्लोकादध ऊर्ध्वं वाऽनुश्रेण्येव गतिरिति भावः ॥ २ मुक्तानां गतेर्नियमेनावक्रत्वादुक्तं कर्मायत्तत्वादिति ॥