________________
: ५८ :
5
तस्वन्यायविभाकरे
[तुर्यकिरणे
इदमेवेति । पौगलिकमेवेत्यर्थः, भावपुण्यमाह - द्रव्यपुण्येति । येनाऽऽत्मनोऽध्यवसायविशेषेण द्रव्यात्मकपुण्यस्य निष्पत्तिः सोऽध्यवसायो भावपुण्यनामेत्यर्थः ॥
20
अथ मूलप्रकृतिबन्धानामष्टविधकर्मणामुत्तरप्रकृतिबन्धेषु यानि पुण्यरूपाणि द्विचत्वारिंशद्विधानि पूर्वोदितानि प्रत्येकं तेषां स्वरूपं निरूपयितुमुपक्रमते
आयुर्नामगोत्रकर्मभिन्नमनुकूलवेदनीयं कर्म सातम् । वेदनीयायुर्ना - मकर्मभिन्नं गौरवजनकं कर्म उच्चै गोत्रम् । मानुषत्व पर्याय परिणतिप्रयोजकं कर्म मनुजगतिः ॥
आयुरिति । आयुर्नामगोत्रकर्मभिन्नत्वे सत्यनुकूलवेदनीयत्वे च सति कर्मत्वं सातवेदनीयस्य लक्षणम् । उच्चैर्गोत्रादावतिव्याप्तिवारणाय विशेषणे । अनुकूलवेदनीयं कर्म सातमि10 त्येतावन्मात्र सर्वस्यैव पुण्यात्मककर्मणोऽनुकूलत्वेनाह्रादादिरूपेण वेदनीयत्वादतिव्याप्तिरिति प्रथमं सत्यन्तं, असातवे दनीयेऽतिव्याप्तिवारणाय द्वितीयं सत्यन्तम् । कर्मत्वानुक्तौ सातानुकूलाध्यवसाये कालादिसमवाये वातिव्याप्तिरतस्तदुपात्तम् । देवादिषु गतिषु कर्त्तुरात्मनश्शरीरमनोद्वारेणाऽऽगन्तुकाने कमनोज्ञद्रव्यक्षेत्र कालभाव सम्बन्ध समासादितपरिपाकावस्थं बहुभेदं सुखपरिणतिरूपमिष्टं यदुदयाद्भवति तत्सातवेदनीयमिति भावार्थ: । पञ्चदशसागरोपम15 कोटी कोट्योsस्य परा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या काषायिकी द्वादशमुहूर्त्ता, अन्तर्मुहूर्त्तमबाधा, इयञ्च संज्ञिपञ्चेन्द्रियस्यैव । अकषायिकी तु जघन्यत उत्कृष्टतोऽपि सयोगिकेवल्यादौ समयद्वयमात्रं स्थितिः । उच्चैर्गोत्रस्वरूपमाह - वेदनीयेति । वेदनीयायुर्नामकर्मभिन्नत्वे सति गौरवजनकत्वे च सति कर्मत्वं लक्षणार्थः । सातादावतिव्याप्तिवारणाय विशेषणद्वयम् । गौरवजनकत्वे सति कर्मत्वस्य सद्वेदनीयवतो देवायुष्कस्य तीर्थकरनामकर्मणश्च गौरवदर्शनात् तत्र तत्र सत्त्वादतिव्याप्तिव्युदासाय प्रथमं सत्यन्तम् । नीचैर्गोत्रे ऽतिव्याप्तिरतो द्वितीयं सत्यन्तम् | अध्यवसायविशेषे कालादौ वाऽतिव्याप्तिवारणाय विशेष्यम् | यदुदयाज्जीव आर्यदेशे मगधादौ हरिवंशाद्युत्कृष्टजातिषु सन्मातृकुलेषु प्रभुसमीपाssस्थानेषु संभवं मानसत्कारैश्वर्यादींश्च लभते तदुच्चैर्गोत्रमिति भावार्थ: । अस्य परा स्थितिर्विंशतिसागरोपमकोटीकोट्यः । अबाधाकालो वर्षसहस्रद्वयम् । जघन्या त्वष्टौ मुहूर्त्ता अन्तर्मुहूर्तमबाधा चेति ।
१ जीवस्याध्यवसायवशाद्रहणकाले शुभाशुभादिविशेषणाविशिष्टानां कर्मणां ग्रहणसमय एव शुभत्वमशुभत्वं वा भवतीति पुण्य कर्मनिष्पत्तावध्यवसायो हेतुरिति भावः ॥ २शोधितमिथ्यात्वपुद्गलरूप सम्यक्त्वहास्यरतिपुरुषवेदानां केषाञ्चिन्मते पुण्यरूपत्वेऽपि मोहनीयभेदत्वेन विपर्यासहेतुत्वात्पापरूपत्वमिति तदुपेक्ष्य द्विचत्वारिंशद्विधत्वं पुण्यस्यात्रोक्तम् ॥ ३ बाहुल्येन देवेषु मनुजेषु च सातोदयः कदाचिदसातोदयोऽपि, तिर्यक्षु नारकेषु बाहुल्ये नासातोदयः कदाचित्सातोदयोऽपि ॥