________________
पुण्यस्वरूपम् ]
म्यायप्रकाशसमलङ्कृते
र्गोत्रादिकमनुभूयते जीवैः, तत्र सुपात्रदानादिकं कारणात्मकं पुण्यं, सातोचैर्गोत्रादिकन्तु कार्यात्मकं, आत्मशुभाध्यवसायस्य तु पुण्यत्वमौपचारिकममूर्त्तत्वात्, मूर्त्तस्यैव बन्धकत्वाच्च । तदिदं पुण्यपापात्मकं कर्म संतत्याऽनाद्यं, संसारस्यानादित्वात्, अन्यथा पूर्वं जीवस्य पश्चात्कर्म
सम्भवः, पूर्वं वा कर्मणः पश्चाज्जीवस्य, उभयोरपि वा युगपद्वाच्यः, तत्रैकोऽपि पक्षो न सम्भवति, निर्हेतुकत्वेनात्मनः प्रथमं सम्भवासंभवात्, तस्यानादिसिद्धत्वेऽपि पश्चात् कर्मबन्धो 5 न संभवत्येव कारणाभावात् । निष्कारणं वा सम्भवे मुक्तस्यापि कर्मबन्धापत्तेः, तथा प्रथमं कर्मसमुद्भवोऽपि न न्याय्यः कर्त्तुर्जीवस्य तदानीमभावात्, अक्रियमाणस्य कर्मत्वायोगात्, कारणं विनैव तस्य समुद्भवे नाशस्याप्यकारणत्वापत्तेः । तथा न युगपदुत्पत्तिसम्भवः, उभयस्यापि निर्हेतुकत्वात्, युगपदुत्पन्नयोस्तयोः कर्त्तृकर्मभावस्य सव्येतरगोविषाणयोरिवासम्भवात् । तस्मादनादिरेव जीवकर्मणोः सम्बन्धः । न च जीवकर्मसंयोग सन्तानस्यानादित्वे जीवनभ- 10 सोरिवानन्तत्वमपि स्यादिति वाच्यम्, बीजाङ्कुरादीनां संतानस्यानादेरपि सान्तत्वदर्शनात्, दृश्यते हि बीजाङ्कुरयोर्मध्येऽन्यतरस्यानिवर्तित कार्यस्यैव व्युच्छेद इति । तथा च मिथ्यात्वाविरतिकषाययोगरूपैर्बन्धहेतुभिर्जीवोऽष्टविधेषु औदारिकादिकर्म वर्गणापुद्गलेषु कर्मशरीरग्रहणयोग्यान् पुद्गलानादत्ते, कर्मतया च ग्रहणसमय एव तान् परिणमय्य शुभाशुभ परिणामानुसारेण कर्मपुद्गलेषु स्थितिरसादीन् निष्पाद्य क्षीरोदकवदात्मप्रदेशैस्सह संश्लेषयति । एवम्भूत 15 एव तस्य स्वभावो यत् कर्मवर्गणागतं कर्मयोग्यमेव द्रव्यमेकक्षेत्रावगाढमेव रुचकप्रदेशभिन्नैः सर्वैरपि स्वप्रदेशै रागद्वेषक्लिन्नस्वरूपत्वाज्जीवो गृह्णाति न तु स्वात्मभिन्नप्रदेशावगाढं कैश्चिदेव प्रदेशैर्गृह्णाति । तत्र कर्मराशिश्च घात्यघातिभेदेन द्विविधः, अनन्तज्ञानदर्शनचारित्रवीर्यात्मक - त्मगुणानां सर्वथा देशेन वा प्रतिहननसमर्थं कर्म घातिकर्मेत्युच्यते, ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायरूपाष्टविधमूलप्रकृतिभूतकर्मसु ज्ञानदर्शनावरण मोहनीयान्तरायच - 20 तुष्टयमात्मनोज्ञानादिगुणघातकत्वादज्ञानाद्यशुभविपाकजनकत्वाञ्चाशुभरूपं घातिकर्म | वेदनीयायुकनामगोत्रचतुष्टयन्तु शुभाशुभविपाकजनकत्वाज्ज्ञानाद्यविघातकत्वाच्च शुभाशुभरूपमघातिकर्म, तत्र यच्छुभं कर्म तत्पुण्यमशुभन्तु पापम्, एतच्चोभयमपि न मेर्वादिभावेन परिणतस्क - न्धवदतिबादरं, सूक्ष्मेण कर्मवर्गणाद्रव्येण निष्पन्नत्वान्नापि परमाणुवदतिसूक्ष्ममिति विज्ञेयम् ।।
1
द्रव्यभावभेदेन द्विविधपुण्यमध्ये यत्पौद्गलिकं पुण्यत्वेनात्र वर्णितं तदेव द्रव्यपुण्यमित्याह - 25
इदमेव द्रव्यपुण्यमुच्यते । द्रव्यपुण्यनामकर्मोत्पत्तिहेतुरात्मनश्शुभाध्यवसायो भावपुण्यम् ॥
: ५७ :