SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ : ५६ : तत्त्वन्यायविभाकरे [ चतुर्थकिरणे पर्यायभेदात् न च स्रक्चन्दनवनितादयस्सुखस्य हेतवो विषाहिकण्टकादयस्तु दुःखस्येति प्रत्यक्षा एव सुखदुःखहेतवः किमदृष्टेन निमित्तान्तरेणेति वाच्यम्, व्यभिचारात् तादृग्वनितादिपदार्थसत्त्वेऽपि पुत्रादिवियोगव्यथितस्य सुखाभावात् सुखेऽपि दुःखेऽपि तारतम्यदर्शनात्, नैतद्दृष्टं कमपि हेतुमन्तरेण युज्यते, तदेव पुण्यपापात्मकं बहुविभेदमदृष्टं कर्मेत्यु5 च्यते, ननु काणत्वखञ्जत्वादिशरीरादिवैलक्षण्येन यदि कर्म साध्यते तर्हि कार्यस्य मूर्त्तत्वेन कर्मापि मूर्त्तं स्यादिति चेत्सत्यमस्माभिः प्रयत्नेन साधयितव्यस्य भवतैव साधनात् मूर्त्तमेव हि कर्म, तत्कार्यस्य शरीरादेर्मूर्त्तत्वात्, यस्य यस्य कार्यं मूर्त्तं तत्तत्कार्यस्य कारणमपि मूर्त्तम्, यथा घटस्य परमाणवः, यच्चामूर्त्तं कार्यं न तस्य कारणं मूत्तं यथा ज्ञानस्यात्मा । तथा मूर्त्तं कर्म, तत्सम्बन्धे सुखादिसंवित्तेः, यत्संबन्धे सुखादि संवेद्यते तन्मूर्त्तं दृष्टं यथाऽशनाद्याहारः, 10 यच्चामूर्त्तं न तत्सम्बन्धे सुखादि संविदस्ति, यथाऽऽकाशसम्बन्धे, एवं यत्सम्बन्धे वेदनोद्भवः मूर्तं दृष्टं यथाऽनलः भवति च वेदनोद्भवः कर्मसम्बन्धे तस्मात्तन्मूर्त्तं, तथा मूर्त कर्म, आत्मनो ज्ञानादीनाञ्च तद्धर्माणां व्यतिरिक्तत्वे सति बाह्येन स्रगादिना बलस्याधीयमानत्वाद् यथा स्नेहाद्या हितबलो घटः, आधीयते च बाह्यैर्मिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं बलं, तस्मात्तन्मूर्त्तं, एवं मूर्त्तं कर्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात्, क्षीर15 वत्, न चायं हेतुरसिद्ध:, कर्मकार्यस्य शरीरादेः परिणामित्वदर्शनात्, यस्य कार्यं हि परिणामि सोऽपि परिणामी, यथा दध्नस्तकादिभावेन परिणामात्पयसोऽपि परिणामित्वमिति । न चाभ्रादिविकाराणां यथा वैनसिकी विचित्ररूपतया परिणतिरभ्युपगम्यते तथा परिदृश्यमानं शरीरमेव काणत्वखञ्जत्व सुखित्वदुःखित्वा दिभावैर्विचित्रतया परिणमति किमन्तर्गडुना कर्मणेति वाच्यम्, ,कर्मणोऽपि शरीरत्वात्, तद्धि केवलं श्लक्ष्णतरमभ्यन्तरच जीव संश्लिष्टत्वात्, 20 यथा च बाह्यतनोरभ्रादिविकारवद्वैचित्र्यमभ्युपगम्यते तथैव कर्मतनोरपि तदभ्युपगमस्य न्याय्यत्वात् । न च बाह्यतनोस्तत्स्वीकार उचितो दृश्यत्वात् कर्मरूपायास्तु सर्वथाऽप्रत्यक्षत्वाद्वैचित्र्यं कथमिच्छाम इति वाच्यम्, मरणकाले दृश्यमानस्थूलशरीरस्य सर्वथा विप्रमुक्तस्य जन्तोर्भवान्तरगतस्थूलशरीरग्रहण हेतु सूक्ष्मकर्मशरीरस्यावश्यकत्वात्, अन्यथा देहान्तरग्रहणानुपपत्तेर्मरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारव्यवच्छित्तिः स्यात् । न च मूर्त्तस्य कर्म25 णोऽमूर्त्तेनात्मना सम्बन्धो न स्यादिति वाच्यम्, मूर्त्तस्य घटस्यामूर्त्तेनाकाशेन सम्बन्धात्, संसारिणो जीवस्य सर्वथाऽमूर्त्तत्वाभावाच्च । तस्मात्सिद्धं कर्म विचित्रं मूर्त्तश्चेत्यलं प्रसङ्गेन ॥ तत्र पुण्यमिदं कार्यकारणभेदेन द्विविधं सुपात्रदानादिभिर्वक्ष्यमाणैः कारणैस्सा तो चै -. १ ननु घटेनाssकाशस्य संयोगे न मूर्त्तत्वं निबन्धनमपितु व्यापकत्वमित्यनुयोगे त्वाह संसारिण इति ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy