________________
पुण्यकर्मसिद्धिः ]
न्यायप्रकाशसमलङ्कृते वारणाय सत्यन्तं कालादिसमवायेऽतिप्रसङ्गभङ्गाय विशेष्यम् । मुक्तिसुखवारणाय पौद्गलिकेति सुखविशेषणम् । यदि मोक्षसुखजनके कर्मत्वाभावादेव नातिव्याप्तिरतः पौद्गलिकेति व्यर्थमित्युच्यते तदा पौद्गलिकसुखपदेनेष्टगतिजातिशरीरेन्द्रियविषयादयो विवक्षितास्तथाच शोभनगतिवर्णाद्यनुगुणं शुभानुभावश्च पुण्यमिति फलितार्थः । ननु पश्वादयो देवदत्तगुणाकृष्टास्सन्तो देवदत्तमुपसर्पन्ति तम्प्रति नियमेनोपसर्पणाद् 5 प्रासादिवदिति ग्रासादेराकर्षणं यथा प्रयत्नेनात्मगुणेन भवति तथा पश्वादीनां देवदत्तात्मगुणाभ्यां धर्माधर्माभ्यां भवतीति न्यायादितंत्रान्तरीयैर्धर्माधर्मात्मकपुण्यपापयोरात्मगुणत्वाभ्युपगमादत्रापि किं पुण्यं गुणो वा पुद्गलविशेषो वेति शंकायामाह-पौद्गलिकमेतदिति । एतत्पुण्यं पौद्गलिकं पुद्गलपरिणामत्वात्पौद्गलिकमित्यर्थः । पश्वादेराकर्षणं हि लोके रज्ज्वादिना संयोगेन दृष्ट, अदृष्टेन त्वेषामाकर्षणं कथं वा स्यान्न संयोगेन द्रव्ययोरेव 10 संयोगाभ्युपमात् , न समवायेन असिद्धेः, नापि स्वाश्रयसंयोगेन, अदृष्टाश्रयस्यात्मनो विभुत्वस्याप्रमाणत्वेन पश्वादिना संयोगासंभवादिति भावः । ननु नास्त्येव पुण्यं पापं वा कर्म, कायाकारेण परिणतेभ्यो भूतेभ्य एव सुखदुःखाद्युत्पादसंभवादिति चेन्न, शरीराकारपरिणतपुद्गलानां साधारण्येन सुखदुःखवैषम्यस्य जीवेषु दृष्टस्यानुपपत्तेः, दृश्यते हि सुखित्वं कस्यचिदेव कदाचिदेव दुःखित्वञ्च तथा, भूतानामेव तन्निबन्धनत्वे वैचित्र्यमिदं न स्यादेव, न 15 चैतद्वैषम्यं निर्निमित्तं, तथात्वे परमाणुवन्नित्यं सत्त्वं गगनकुसुमादिवन्नित्यमसत्त्वं वा स्यान्न तु कादाचित्कत्वं, न चाकस्मिकत्वमेव कादाचित्कत्वमिति वाच्यम् , कारणनिरपेक्षोत्पत्तिकत्वस्याकस्मिकत्वे निरन्तरोत्पत्तिप्रसङ्गात् , सामग्रीवैकल्यस्य वा प्रतिबन्धकस्य वा कस्यचिदभावात् , कारणोत्पत्तिभ्यां रहितत्वमेव तदिति चेत्तदा तयोनित्यत्वं वा, अत्यन्तासत्त्वं वा स्यात् , भवतु नित्यत्वमिति चेन्न तयोरुत्पादविनाशित्वेनानुभवात् , अत एव च नात्यन्तासत्त्वं, अथ 20 नान्यस्मात् कस्मादपि भवनमपि तु स्वस्मादित्याकस्मिकत्वमिति चेदसतः स्वपदार्थत्वे तस्मात्कस्यचिदप्युत्पत्त्यभावात् , यदि स्वं सदेव तर्हि किमुत्पत्त्या, सत्त्वार्थमेवोत्पत्तेर्गवेषणात् , तस्मादवश्यं कारणेन केनापि भवितव्यमेव, भवतु तर्हि भूतातिरिक्तं किश्चिदेकमेव तत्कारणमविलक्षणादपि कारणात् कार्यवैचित्र्यस्य प्रदीपादौ दर्शनात् , प्रदीपो हि प्रकाशकारी तैलविनाशकारी वर्त्तिविकारकारी चेति, तथापि वैचित्र्यानुपपत्तेः, सर्वे सुखिनो वा स्युर्दुःखिनो वा, 25 दृश्यते च सुखादिवैचित्र्यं, तदवश्यमेव विचित्रस्य कर्मणः फलमभ्युपेयम् । अस्त्येव प्रदीपादावपि वैचित्र्यं, येन रूपेण प्रकाशकारी प्रदीपादिन तेन रूपेण वर्तिविकारकारी प्रतिक्षणं
१. आरोग्यचिरजीवित्वाब्यत्वकामभोगसंतोषप्रव्रज्यामोक्षरूपेषु सुखेषु मोक्षमेव सर्वोत्तमं सुखम् , परेषां दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च, तत्त्वतो न सुखमेतदेव च पौद्गलिकं सुखमिति भावः ॥