________________
: ५४: तत्त्वन्यायविभाकरे
[चतुर्थकिरणे गतिमत्त्वे बाधकाभावात्, एवं शिशिरत्वादाप्यायकत्वाच्च जलवातादिवद् द्रव्यत्वसिद्धेः । एवमातपोऽपि दिवाकरविमानात्स्वभावतः शीतलादपि समुपजायमान उष्णप्रकाशरूपः पुद्गलपरिणाम एव तापजनकत्वात् , स्वेदहेतुत्वादुष्णत्वात्कृशानुवदिति ॥ ..
ननु पृथिव्या गन्धरसरूपस्पर्शवत्त्वाजलस्य रसरूपस्पर्शवत्वात्तेजसो रूपस्पर्शवत्त्वाद्वा5 योस्स्पर्शमात्रवत्त्वान्न पुद्गलपरिणामत्वं स्पर्शरसगन्धवर्णवतामेवागमे पुद्गलत्वप्रतिपादनात् , एषां च पृथिव्यादीनां विजातीयपरमाण्वारब्धत्वादित्याशङ्कायामाहपरमाणूनां परिणामविशेषा एव पृथिवीजलतेजोवायवः ।।
__ इत्यजीवनिरूपणम् ॥ परमाणूनामिति । परिप्राप्तबन्धपरिणामाः परमाणव एव स्कन्धरूपाः पृथिव्यादयः, 10 एवं पृथिव्यादयः परमाणुपरिणामविशेषाः स्पर्शादिमत्त्वात् , ये न तत्पर्याया न ते स्पर्शवन्तो
यथाऽकाशादयः, स्पर्शादिमन्तश्च पृथिव्यादयस्तस्मात्परमाणुपर्याया इति तत्परिणामविशेषत्व. सिद्धिः, न च स्पर्शादिमत्त्वं पक्षकदेशासिद्धम् , जलादौ गन्धाद्यभावादिति वाच्यम् , स्पर्शवत्त्वेन गन्धानुमानात्, क्वचिन्नलादौ गन्धाधुपलब्धेश्च । न च तत्संयोगिनां पार्थिवद्रव्याणां
संयोगेन तद्गुणत्वेन गन्धोपलब्धिस्तत्रेति वाच्यम् , साध्यसमत्वात् , तत्र तद्वियोगकालादर्श15 नात् , क्वचिदनुद्भूतस्वभावत्वेनैवानुपलब्धेः । एवं तेजोऽपि स्पर्शादिस्वभावकं, तद्वत्कार्यत्वाद्
घटवत्, स्पर्शादिमतां हि काष्ठादीनां कार्य तेजः, तत्परिणामाच्च, उपभुक्तस्य ह्याहारस्य स्पर्शादिगुणस्य वातपित्तश्लेष्मविपरिणामः, पित्तं च जठराग्निरुच्यते तस्मात्स्पर्शादिमत्तेजः । तथा वातश्च प्राणादिः, ततो वायुरपि स्पर्शादिमानिति भावः। अथाजीवनिरूपणं निगमयतीतीति।
इति तपोगच्छनभोमणि श्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कार श्रीमद्विजयकमलसूरीश्वर 20 चरणनलिनविन्यस्तभक्तिभरण तत्पधरेण विजयलब्धिसरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायामजीवनिरूपणो नाम
तृतीयः किरणः ॥
अथ चतुर्थः किरणः ॥ . तदेवं जीवाजीवौ लक्षणप्रकाराभ्यां समासतोऽभिधाय क्रमायातं पुण्यतत्त्वं निरूपयितुं 25 तल्लक्षणमाह
पौगलिकसुखोत्पत्तिजनकं कर्म पुण्यम् । पौद्गलिकमेतत् ॥ पौद्गलिकेति । पौगलिकसुखोत्पादहेतुत्वे सति कर्मत्वं लक्षणार्थः, पापेऽतिव्याप्ति