________________
शब्दादीनां द्रव्यत्वं ]
न्यायप्रकाशसमलङ्कृते । गमनं स्निग्धतादिविशेषदर्शनादनुमीयेत । कथं वा पिहितनिश्छिद्रमृदटादेर्जलाभ्यन्तरनिहितस्यान्तश्शीतस्पर्शोपलम्भात्सलिलप्रवेशोऽनुमीयेत, तदभेदनादिकं वा तस्य निश्छिद्रतया प्रेक्षणात्कथमुत्प्रेक्षेत, तस्मात्स्नेहादिस्पर्शादिभिर्व्यभिचारी हेतुः । न च शब्दो न पुद्गलस्वभावः, अस्पर्शत्वात् सुखादिवदिति बाधकसद्भावान्न पुद्गलस्वभावत्वं शब्दस्येति वाच्यम् , हेतोरसिद्धत्वात् , यतः कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोः श्रवणाापघा- 5 तिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनामस्तङ्गमयति । न च शब्दस्य पुद्गलपर्यायत्वे चाक्षुषत्वप्रसङ्ग इति वाच्यम् , गन्धपरमाणुवददृश्यत्वात् , एतेन शब्दस्याकाशगुणत्वं निरस्तं मूतत्वात्, नहि रूपादयो व्योमगुणा इति व्यवहारः शोभते तस्मात् पुद्गलानामेव तथाविधः परिणामः शब्दव्यपदेशमश्नुते, तथा च परिणामपरिणामिनोरभेदेन स्याद्रव्यं स्याद्गुण इति विज्ञेयम् । अन्धकारस्तावत्पुद्गलपरिणाम एव भित्त्यादिवद् दृष्टिप्रतिरोधकारित्वात् , पटादिवदा- 10 वारकत्वात्, न तु तेजोऽभावरूपः, व्यवधानक्रियासामर्थ्यात् भित्त्यादिवत् , अभावरूपत्वे हि निष्क्रियत्वेन व्यवधानक्रियाकर्त्तत्वं न स्यात्तस्य, न च यत्कार्यद्रव्यं न तत्तैजसेन प्रकाशेन. विरुध्यते, विरुध्यते च तमः, ततो न द्रव्यकार्य तदिति वाच्यम् , तेजःप्रकाशयोरेकत्वेनाभ्युपगमात् , जलादिद्रव्यस्य च तद्विरोधकत्वेनोक्तहेतोरसिद्धत्वात् । न च तेजःप्रकाशयोरेकत्वं न सम्भवति, धाराधरे निरन्तरधारं वर्षत्यलिन्दकादिप्रतिष्ठापितेन प्रदीपेन 15 बहिरपि प्रद्योतनात् , अन्यथा जलपातेन प्रशान्ततया बहिःप्रकाशो न दृश्येतेति वाच्यं, तथा विधत्वमपरित्यजतां प्रदीपसम्बन्धिनां पुद्गलानां जलबिन्दुसम्पर्केण तथाविधत्वपरित्यागात् तत्समकालमेव प्रदीपशिखया विकीर्णानां कृशानुपुद्गलानामपराणां तदाकाशदेशप्राप्तेः तेषाञ्च परिणामविशेषतो वडवानलावयवानामिव जलपातेन शमयितुमशक्यत्वात् , तथा च परिणामवैचित्र्यात् पुद्गलानां विरोधाविरोधपरिणामभाक्त्वेन नास्माकं कश्चन विरोध इति । 20 एवमुद्योतोऽपि चन्द्रग्रहनक्षत्रादीनां शीतप्रकाशः, स आह्लादकत्वात् प्रकाशकत्वाञ्च जलाग्न्योरिव मूर्तद्रव्यपरिणाम एव, पद्मरागादीनां प्रकाशोऽप्युद्योतोऽनुष्णाशीतत्वात्पुद्गलपरिणामः। प्रभा च सूर्याचन्द्रमसोस्तेजस्विपुद्गलानाञ्च प्रकाशरश्मिभ्यो निर्यदुपप्रकाशः सोऽपि विरलप्रकाशरूपत्वात् पुद्गलपरिणाम एव । एवं छायापि द्रव्यं क्रियावत्त्वाद्धटवत् छाया गच्छतीति प्रत्ययात्तस्य क्रियावत्त्वम् । देशाद्देशान्तरप्राप्त्युपलम्भतोऽपि तत्सिद्धेः। न च वार- 25 कद्रव्येण तेजसः सान्निध्यनिषेधे वारकद्रव्यगतक्रियायाः तेजोऽभावरूपायां छायायामारोपेण छाया गच्छतीति व्यवहार इति वाच्यम्, मुख्यक्रियाया बाधाभावे आरोपासंभवात्, तस्या
१ दृष्टेर्व्यवधानकरणे सामर्थ्यादित्यर्थः । २ उत्पत्तिस्थानस्थानामेव प्रदीपपुद्गलानां जलेन विरोधो, न ततो बहिनिस्मृतानामिति स्याद्विरोधस्स्यादविरोधश्चेति भावः ।