________________
शरीरस्वामिनः ]
न्यायप्रकाशसमलते सहायश्च । शरीराभ्यामेताभ्यां जीवस्य गमनागमने प्रवेशनिर्गमने च स्याताम् । अत्यन्तसूक्ष्मत्वाच्च भवान्तरगमनकालेऽपि नैतयोश्चक्षुर्विषयत्वम् । कार्मणनामकर्मणस्तु समानवर्गणापुद्गलमयत्वेऽपि स्वकार्यभूतात्कार्मणशरीरादन्यत्वमेव कार्मणशरीरस्य कारणभूतत्वात् । यद्यपि सर्वेषामेव शरीराणां कर्मजन्यत्वं कर्मसमूहरूपत्वश्च तथाप्यौदारिकादिनामकर्मनिमित्तकत्वादौदा रिकादिसंज्ञाविशेषात् स्थौल्यादिलक्षणात् तिर्यमनुष्यादिस्वामिभेदात् । सामर्थ्यभेदाच्च मृद्रूपकारणाविशेषेऽपि मृत्समूहाविशेषेऽपि च घटशरावादिभेदवत्तेषां परस्परं वैषम्यमस्त्येव । न च नास्त्येव कार्मणं शरीरं निमित्ताभावात्खरविषाणवदिति वाच्यं प्रदीपवत्स्वस्यैव निमित्तनिमित्तिभावात् , मिथ्यात्वाविरत्यादीनां निमित्तत्वाच्च । अन्यथा निर्हेतुकस्य विनाशहेतोरप्यभावादनिर्मोक्षप्रसङ्ग आपद्येत । न च कार्मणस्यौदारिकादिवद्विशरणधर्मत्वाभावात्कथं शरीरत्वमिति वाच्यम् , निमित्तवशात्तस्यापि सततं चयापचयधर्मत्वादिति । लक्षणं 10 कृत्यश्च प्राग्वत् । अस्याप्युत्कृष्टजघन्यस्थिती पञ्चेन्द्रियवदेव । प्रसङ्गादाह-इमानीति । यद्यपि देहशब्दः पुल्लिङ्गे रूढस्तथापि कार्यभूतशरीराणां पञ्चविधत्वं पुण्यकर्मविभागवाक्यस्थकर्मबोधकपञ्चदेहशब्दवाच्यत्वमेषां पञ्चविधकर्मणाञ्च सूचयितुं 'कायो देहः क्लीबपुंसो' रिति कोशानुरोधेन च नपुंसकनिर्देशः कृतः । तथा च कार्यभूतानीमान्येव पञ्चशरीराणि, कारणभूतानीमानि पञ्चनामकर्माणि विभागवाक्यस्थपञ्चदेहशब्दवाच्यानीति भावः। 15
शरीराणामेषां कार्यभूतानां स्वामिनमाह
तत्राद्यं शरीरं तिर्यङ्मनुष्याणाम् । द्वितीयं देवनारकिणाम् । तृतीयं चतुर्दशपूर्वधरस्यैव । तुर्यपश्चमे संसारिणां सर्वेषां । कार्मणं विहायान्याः न्युपभोगवन्ति ॥
तत्रेति । पञ्चानां शरीराणां कर्मजन्यत्वाविशेषेऽपि कर्मसमूहात्मकाविशेषेऽपि च कारण- 20 भेदाढ़ेदवत्स्वामिभेदादपि भेदेन पश्चस्वेषु शरीरेषु आद्यस्यौदारिकशरीरस्य तिर्यङ्मनुष्याः स्वामिन इति भावार्थः । उदारं प्रधानं तीर्थकरादिभिरङ्गीकरणात् , उत्कृष्टप्रमाणं वोदारं अस्थितवनस्पतेः सातिरेकयोजनसहस्रप्रमाणत्वात् , शुक्रशोणिताद्युपादानप्रभृति प्रतिक्षणमुत्तरोत्तरां व्यवस्था स्वकीयपर्याप्त्याद्यपेक्षां प्राप्नोतीति वोदारं तदेवौदारिकं, तच्च गर्भजानां सम्मूर्च्छनजानाश्च भवतीति भावः। द्वितीयमिति वैक्रियमित्यर्थः। विशिष्टा क्रिया विक्रिया तस्यां भवं 25 वैक्रियं, समुपलब्धवैक्रियलब्धेरिच्छानुविधानादेकं भूत्वाऽनेकं भवति प्रतिहननशीलं
१ भवधारकवैक्रियापेक्षयोत्कृष्ट प्रमाणं बोध्यमन्यथोत्तरवैक्रियमेवोत्कृष्टप्रमाणवत्स्यात् योजनलक्षप्रमाणत्वात्तस्येति ॥