SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ नयनिरूपणम् प्यात्मद्रव्यं नाय॑ते सुखादिपर्यायांस्तु प्रधानेन प्रकाश्यत इति ॥ कालकारकलिङ्गसंख्यापुरुषोपसर्गाणां भेदेन सन्तमप्यभेदमुपेक्ष्यार्थभेदस्य शब्दप्राधान्यात्प्रदर्शकाभिप्रायविशेषः शब्दनयः । यथा बभूव भवति भविष्यति सुमेरुरिति कालभेदेन सुमेरुभेदं, करोति कुम्भं क्रियते कुम्भ इत्यादौ कर्तृत्वकर्मत्वरूपकारकभेदात्कुम्भमेदं, पुष्यस्तारका इत्यादौ लिङ्गभेदेनार्थभेदं, आपोऽम्भ इत्यादौ संख्याभेदेन जलस्य भेदं, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेत्यादौ मध्यमोत्तमरूपपुरुषभेदेनार्थभेदं, सन्तिष्ठतेऽवतिष्ठत इत्यादावुपसर्गभेदेन चार्थभेद प्रतिपादयति शब्दनयः कालादिप्राधान्यात् । अभेदं पुनर्न तिरस्करोति अपि तु गौणीकरोति ॥ पर्यायभेदे तु नार्थभेदमभ्युपैति नयोऽयम् ॥ निर्वचनभेदेन पर्यायशब्दानां विभिन्नार्थाभ्युपगमाभिप्रायस्समभिरूढनयः । यथा इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात्पुरन्दर इत्यादयः। अत्र हि परमैश्वर्यवत्वसमर्थत्वामरपुरविभेदकत्वरूपप्रवृत्तिनिमित्तमाश्रित्यैषां शब्दानां भिन्नार्थत्वाभ्युपगमः अस्य नयस्य विषयः। अत्राप्यभेदस्य न निरासः ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy