SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ( ९२ ) तत्त्वन्यायविभाकरे परसामान्यमवलम्ब्य विधायौदासीन्यं तद्विशेषेषु अर्थानामेकतया ग्रहणाभिप्रायः परसङ्ग्रहः । यथा विश्वमेकं सदविशेषादिति । अनेन वक्त्रभिप्रा येण सत्वरूप सामान्येन विश्वस्यैकत्वं गृह्यते । एवं शब्दानामप्रयोगाच्च विशेषेषूदासीनता प्रतीयते ॥ अपरसामान्यमवलम्ब्य तथाभिप्रायोऽपरसङ्ग्रहः । यथा धर्माधर्माकाशकालपुद्गलजीवानामैक्यं, द्रव्यत्वाविशेषादिति । अनेनाप्यभिप्रायेण द्रव्यत्वरूपापरसामान्येन. धर्मादीनामेकत्वं तद्विशेषेषूदासीनत्वञ्च गृह्यते ॥ प्रतिषेधपरिहारेण सङ्ग्रहविषयी भूतार्थविषयकविभागप्रयोजकाभिप्रायो व्यवहारनयः । यथा स धर्मेणकतया संगृहीतस्य सतः द्रव्यपर्यायाभ्यां विभागकरणाभिप्रायो यत्सत् तद्विधा द्रव्यं पर्यायश्चेति । एवं द्रव्यत्वेन सङ्गृहीतस्य द्रव्यस्य धमदिरूपेण षोढा विभागकरणाभिप्रायो यद्रव्यं तद्धर्मादिरूपेण षोढेति ॥ द्रव्यं गौणीकृत्य प्राधान्यतया वर्तमानक्षणवृत्तिपर्याय मात्रप्रदर्शनाभिप्रायविशेषः ऋजुसूत्रनयः । यथा सम्प्रति सुखपर्यायोऽस्ति दुःखपर्यायो - स्ति, द्वेषपर्यायो वास्तीत्यभिप्रायाः । अत्र हि सद
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy