SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (९४) तत्त्वन्यायविभाकरे तत्तत्क्रियाविधुरस्यार्थस्य तत्तच्छब्दवाच्यत्वमप्रतिक्षिपन् शब्दानां स्वस्वप्रवृत्तिनिमित्तक्रियाविशिष्टार्थाभिधायित्वाभ्युपगम एवम्भूतनयः । यथा परमैश्वर्यप्रवृत्तिविशिष्ट इन्द्रशब्दवाच्यः सामर्थ्यक्रियाविशिष्टश्शक्रपदबोध्यः, असुरपुरभेदनक्रियाविशिष्टः पुरन्दरशब्दवाच्य इत्येवंरूपाभिप्रायाः ।। तत्राद्याश्चत्वारो नया अर्थनया अर्थप्रधानत्वात् अन्त्ये त्रयस्तु शब्दनयाः शब्दवाच्यार्थविषयत्वात्।। नैगमो भावाभावविषयकः, सङ्ग्रहस्सर्वभावविषयकः, व्यवहारः कालत्रयवृत्तिकतिपयभावप्रकारप्रख्यापकः, वर्तमानक्षणमात्रस्थायिपदार्थविषय ऋजुसूत्रः, कालादिभेदेन भिन्नार्थविषयश्शब्दनयः, व्युत्पत्तिभेदेन पर्यायशब्दानां विभिन्नार्थतासमर्थनपरःसमभिरूढः,क्रियाभेदेन विभिन्नार्थतानिरूपणपर एवंभूतनय इत्युत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य महाविषयत्वं बोध्यम् ॥ ___ धर्मद्वयधर्मिद्वयधर्मधर्मिद्वयानां सर्वथा पार्थक्याभिप्रायो नैगमाभासः यथा वहिपर्वतवृत्तित्वयोः अनित्यज्ञानयोः रूपनैल्ययोः आत्मवृत्तिसत्त्वचैतन्ययोः काठिन्यवद्रव्यपृथिव्योः रूपवद्रव्यमूर्तयोः पर्यायवद्रव्यवस्त्वोः ज्ञानात्मनोः नित्यसुखमुक्तयोः
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy