________________
(६४)
तत्त्वन्यायविभाकरे भवन्ति । न चक्षुर्मनोभ्यां, विषयेन्द्रियसंश्लेषाभावात्। स्पर्शनादीन्द्रियाणामुपकरणात्मकानां स्पर्शाद्याकारेण परिणतपुद्गलानां च यः परस्परं संश्लेषस्सा व्यंजनेत्युच्यते । सोऽयं चतुर्विधो व्यञ्जनावग्रह इति मिलित्वाष्टविंशतिविधं मतिज्ञानम् । श्रुतज्ञाने तु नावग्रहादयो भवन्ति ।
मतिज्ञानापेक्षो वाच्यवाचकभावपुरस्कारेण शब्दसंस्पृष्टार्थग्रहणविशेषः श्रुतज्ञानम् । तदनुकूलोपयोगोऽपि श्रुतम् । तच्चाक्षरानक्षरसंज्यसंज्ञि सम्यमिथ्यात्वसाद्यनादिसपर्यवसितापर्यवसितगमिकागमिकाङ्गप्रविष्टानङ्गप्रविष्टश्रुतभेदेन चतुर्दशविधम् ।।
संज्ञाव्यञ्जनलब्ध्यन्यतमवत् श्रुतमक्षरश्रुतम् । यथा क्रमेण लिपिविशेषः, भाष्यमाणाकारादिः, त्वङ्मनो निमित्तकः श्रुतोपयोगः । भावश्रुतहेतुरुच्छ्वसितादिरनक्षरश्रुतम् । समनस्कस्य श्रुतं संजिश्रुतम् । तद्विपरीतमसंज्ञिश्रुतम् । सम्यग्दृष्टीनां श्रुतं सम्यक् श्रुतम् । मिथ्यादृष्टीनां श्रुतं मिथ्यात्वश्रुतम् । आदिमच्छुतं सादिश्रुतम् । इदं पर्यायार्थिकनयापेक्षया । आदिशून्यं श्रुतमनादिश्रुतम् । इदन्तु द्रव्यार्थिकनयापेक्षया । अन्तवच्छ्रुतं सपर्यवसितश्रुतम् । अनन्तवच्छूतमपर्यवसितम् । इमेऽपि तथैव । प्रायः