SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रत्यभिज्ञानिरूपणम् सहशपाठात्मकं श्रुतं गमिकश्रुतम् । तद्विपरीतमगमिकम् । द्वादशाङ्गगतं श्रुतमङ्गप्रविष्टम् । यथाऽऽचाराङ्गादि । तद्भिन्नं स्थविरकृतं श्रुतमनङ्गश्रुतम् । यथाऽऽवश्यकादि ॥ मतिश्रुतयोबहुवक्तव्यत्वेऽपि विस्तरभिया नोच्यते ॥ __ इति सांव्यवहारिकप्रत्यक्षम् । अनुभवमात्रजन्यं ज्ञानं स्मृतिः । यथा स घट इत्यादि । अत्र प्रायेण तत्तोल्लिख्यते । अनुभवोऽत्र प्रमाणरूपः। आत्मशक्तिरूपसंस्कारो द्वारम् । प्र. बोधः सहकारी । पूर्वानुभूतविषयिणीयम् । अर्थाविसंवादकत्वाचास्याः प्रामाण्यम् ।। ___ इति स्मृतिनिरूपणम् अनुभवस्मरणोभयमात्रजन्यं ज्ञानं प्रत्यभि ज्ञानम् । इदं तत्तेदन्तोल्लेखनयोग्यमेकत्वसादृश्यलक्षण्यप्रतियोगित्वादिविषयकं सङ्कलनज्ञानापरपर्यायमतीतवर्तमानोभयकालावच्छिन्नवस्तुविषयकञ्च। तत्रैकत्वविषयकं, स एवायं देवदत्त इत्यादि ज्ञानम् । सादृश्यविषयकं, गोसदृशो गवय इत्यादि । अनवोपमानस्यान्तर्भावः। वैलक्षण्यविषयकं, गोविसहशो
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy