________________
प्रत्यक्षनिरूपणम्
( ६३ )
ख्येयासंख्येयकालवर्त्तिनी ज्ञानरूपा संस्कारशब्दवाच्या च । अवग्रहादयस्त्वान्तमहर्तिकाः ॥ केचित्तु आत्मशक्तिविशेष एव संस्कारशब्दवाच्योऽव्यवहितिहेतुश्च नधारणा, क्षायोपशमिकोपयोगानां युगपद्भावविरोधात् । परम्परया तस्यास्तद्धेतुत्वे न किंचिद्दषणमिति प्राहुः ॥
एषाञ्च द्रव्यार्थिकनयापेक्षयैक्यं, पर्यायार्थिकनयापेक्षया च भिन्नत्वम् ॥
तथाचार्य क्रमः इन्द्रियार्थयोर्योग्यताख्ये सम्बन्धे सति सन्मात्रज्ञानं दर्शनाख्यं प्रथमतः समुन्मीलति, इदं किञ्चिदिति । ततः केनचिज्जात्यादिनावग्र होऽयं मनुष्य इति । ततोऽनिर्धारितरूपेण संशयोऽयं पौरस्त्यो वा पाश्चात्यो वेति । ततो नियताकारेण संभावनात्मिकेहाऽयं पाश्चात्य एव भवितव्य इति । अनन्तरमीहिताकारेण निर्णयात्मकोऽपायोऽयं पाश्चात्य एवेति । ततः कालान्तरस्मृतिहेतुत्वेन धारणोदेतीति ॥
इन्द्रिय मनोन्यतरजन्योऽभिलापनिरपेक्षस्स्फुटावभासो मतिज्ञानम् । इदञ्च प्रत्येकेन्द्रियैर्मनसा चावग्रहादिक्रमेण जायमानत्वाच्चतुर्विंशतिविधम् । रसनादीन्द्रियैश्चतुर्भिरेव चतुर्विधा व्यञ्जनावग्रहा