SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षनिरूपणम् (५९): मतिश्रुतावधिमनःपर्यवकेवलानि ज्ञानानि ॥ एतान्येव प्रमाणानि । यथार्थनिर्णयः प्रमाणम् । तविविधं पारमार्थिकप्रत्यक्षं परोक्षश्चेति ॥ तत्रावधिमनःपर्यवकेवलानि पारमार्थिकप्रत्यक्षाणि । मतिश्रुते परोक्षे ॥ . परोक्षमपि सांव्यवहारिकप्रत्यक्षस्मरणप्रत्यभिज्ञातर्कानुमानागमभेदात् षड्विधम् । अव्यवहितात्मद्रव्यमानसमुत्पन्नं ज्ञानं पारमार्थिकप्रत्यक्षम् । तद्विविधं सकलं विकलश्च । कृत्स्नावरणक्षयात्केवलं ज्ञानं सकलम् । अशेषद्रव्यपर्यायविषयकसाक्षात्कारः केवलम् । इदश्च घातिकर्मक्षयाद्भवति । तद्वानेव सर्वज्ञः ॥ -- अवधिमनःपर्यवौ तु तत्तदावरणक्षयोपशमजन्यत्वाद्विकलौ ॥ इन्द्रियसंयमनिरपेक्षो रूपिद्रव्यविषयकस्साक्षात्कारोऽवधिः। स द्विविधो भवजन्यो गुणजन्य. श्वेति। भवो जन्म, तस्माजन्यो यथा सुरनारकाणाम्, गुणस्सम्यग्दर्शनादि तजन्यो यथा नरतिरश्चाम् ।। अनुगाम्यननुगामिहीयमानवर्धमानप्रतिपात्यप्रतिपातिभेदात् षड्विधो अवधिः । अवधिमत्पु
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy