________________
(५८)
तत्त्वन्यायविभाकरे णधरादयः । कृत्स्नकर्मक्षयात् नपुंसकशरीरान्मुक्ता नपुंसकलिङ्गसिद्धाः । यथा गाङ्गेयः॥
एकनिमित्तमात्रदर्शनजन्यवैराग्यास्तत्कालसम्प्राप्तरत्नत्रया मुक्ताः प्रत्येकबुद्धसिद्धाः । यथा करकण्डुद्विमुखनमिराजर्षिप्रभृतयः । निमित्तदर्शनमन्तरा बोधप्राप्तिपूर्वकं केवलिनो मुक्तास्स्वयम्बुद्धसिद्धाः । यथा कपिलादयः । उपदेशजन्यप्रतिबोधा अवाप्तरत्नत्रया मुक्ता बुद्धबोधितसिद्धाः । यथा जम्बूस्वामिप्रभृतयः ॥
इतरानवाप्तमुक्तिकैकसमयावाप्तमुक्तिका एकसिद्धाः । यथा श्रीमहावीरस्वामिनः । एकस्मिन् समयेऽनेकैस्सह मुक्ता अनेकसिद्धाः । यथा श्रीऋषभदेवाद्याः॥
इति मोक्षतत्त्वनिरूपणम् सम्यक्श्रद्धा यथाशास्त्रं सविभागा सलक्षणा । संक्षेपेण समाख्याता स्यान्मोदाय विपश्चिताम् ॥