SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वारनिरूपणम् स्वयम्बुद्धबुद्धबोधितैकानेक सिद्धभेदेन विधाः ॥ ( ५७ ) पश्चदश अनुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता जिनसिद्धाः । यथा ऋषभादयः । अननुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता अजिनसिद्धा: । यथा पुण्डरीकगणधरादयः ॥ प्रवर्तिते तीर्थे मुक्तास्तीर्थसिद्धाः । यथा गणधारिणः । अर्वाक् तीर्थस्थापनाया एव मुक्ता अतीर्थसिद्धाः यथा मरुदेवा ॥ पूर्वभवाऽऽसेवितसर्वविरतिसामर्थ्यजन्य केवल ज्ञाना ज्ञानप्राप्त्यूर्ध्व बहुलायुषोऽभावाद्गृहस्थावस्थायामेवान्तर्मुहूर्ताभ्यन्तरे मुक्ता गृहिलिङ्गसिद्धाः । यथा भरतचक्रीत्युच्यते । भवान्तराssसेवितसर्वविरतिजन्य केवलज्ञाना अल्पायुष्कास्सन्तस्तापसादिलिङ्गेनान्तर्मुहूर्तान्तरे मुक्ता अन्यलिङ्गसिद्धाः । यथा वल्कलचिरी । रत्नत्रयवन्तो रजोहरणादिलिङ्गेन युक्ता मुक्तास्स्वलिङ्गसिद्धाः यथा साधवः ॥ सम्यग्दर्शनादिमहिम्ना स्त्रीशरीरान्मुक्तास्त्रीलिङ्गसिद्धाः । यथा चन्दनाप्रभृतयः । रत्नत्रयेण पुरुषशरीरान्मुक्ताः पुरुषलिङ्गसिद्धाः । यथा गौतमग
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy