SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ (५६) तत्त्वन्यायविभाकरे द्वारम् । व्यक्त्यपेक्षया साद्यनन्तः जातिमाश्रित्यानाद्यनन्तः स्यात् ।। परित्यक्तस्य पुनः परिग्रहणावान्तरकालविचारोऽन्तरप्ररूपणा । सिद्धानां प्रतिपाताभावादन्तरं नास्तीति ध्येयम् ॥ संसार्यात्मसंख्यापेक्षया कियद्भागे सिद्धा इति विचारो भागद्वारम् । अनन्तानन्तसंसारिजीवापेक्षया अनन्ता अपि सिद्धास्तदनन्तभागे भवन्ति ।। ___ औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभेदेन पञ्च भावाः। कर्मणामुपशमेनौपशमिकः, क्षयेण क्षायिका, क्षयोपशमेन क्षायोपशमिकः, उदयेनौदयिकः, स्वभावावस्थानेन च पारिणामिको ज्ञेयः । एषु सिद्धाः कतमे भावे वर्तन्त इति विचारो भावद्वारम् । तेषां ज्ञानदर्शने क्षायिके, जीवत्वं च पारिणामिकमिति भावद्वयं स्यात् ॥ कतमे वेदे सिद्धा अल्पाः कतमे च बहव इति विचारोऽल्पबहुत्वद्वारम् । नपुंसके स्तोकाः स्त्रीपुरुषयोः क्रमतस्संख्येयगुणा विज्ञेयाः॥ सिद्धा अपि जिनाजिनतीर्थातीर्थगृहिलिङ्गान्यलिङ्गस्वलिङ्गस्त्रीलिङ्गपुरुषलिङ्गनपुंसकलिङ्गप्रत्येकबुद्ध
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy