________________
मार्गणानिरूपणम् ... औपशमिकक्षायोपशमिकक्षायिकमिश्रसास्वादनमिथ्यारूपेण षट् सम्यक्त्वमार्गणाः। संज्ञासंज्ञिभेदेन द्विधा संज्ञिमार्गणा । समनस्कास्संज्ञिनो मनोहीना असंज्ञिनः॥
आहारकानाहारकभेदेन द्विविधाऽऽहारकमार्गणा । आहारकरणशीला आहारकास्तद्भिन्ना अनाहारकाः॥
तत्र नरगतिपश्चेन्द्रियजातित्रसकायभव्यसंज्ञियथाख्यानक्षायिकानाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो न शेषेषु ॥
सिद्धजीवसंख्यानिरूपणं द्रव्यप्रमाणम् । तच्च सिद्धजीवानामनन्तत्वं बोध्यम् ॥
चतुर्दशरज्जूप्रमितस्य लोकस्य कियद्भागे सिद्धस्थानमिति विचारः क्षेत्रद्वारम् । लोकस्यासंख्येयभागे सिद्धशिलोवं सिद्धस्थानं, असंख्येयाकाशप्रदेशपरिमाणं सिद्धानां क्षेत्रावगाहो ज्ञेयः ॥
सिद्धात्मनोऽवगाहनाकाशपरिमाणतस्स्पर्शनावगाहना कियतीति विचारस्स्पर्शनाप्ररूपणा । अवगाहनातस्तेषामधिका स्पर्शना भवति ॥
सिद्धावस्थानं कियत्कालमिति विचारः काल