________________
( ५४ )
छेदोपस्थापन परिहारविशुद्धिसूक्ष्मसंपराययथाख्यातदेशविरत्यविरतिरूपास्सप्त चारित्रमार्गणाः । चक्षुरचक्षुरवधिकेवल भेदेन चतस्रो दर्शनमार्गणाः । कृष्ण नीलकापोततेजः पद्मशुक्लभेदेन षड् लेश्यामार्गणाः ॥
तत्त्वन्यायविभाकरे
अल्पफलाय फलिन आमूलं विनाशकरणाध्यवसायः कृष्णलेश्या । यथाफलग्रहणार्थं वृक्षच्छेदा
ध्यवसायः ॥
अल्पप्रयोजनाय तदंशच्छेदनाध्यवसायो नीललेश्या । यथा फलाय शाखाच्छेदाध्यवसायः ॥
अल्पफलार्थं तदंशांशच्छेदनाध्यवसायः कापोतलेश्या । यथा तदर्थं प्रतिशाखाछेदाध्यवसायः ॥
अल्पफलार्थं अंशांशापेक्षया न्यूनांशछेदनाध्यवसायः तेजोलेश्या । यथा फलग्रहणाय स्तबकछेदनाध्यवसायः ॥
ईषत्क्लेशप्रदानेन फलग्रहणाध्यवसायः पद्मलेश्या । यथा वृक्षात्फलमात्र वियोजनाध्यवसायः ॥
इतरक्लेशाकरणतः फलग्रहणाध्यवसायश्शुक्ललेश्या । यथा भूपतितफल ग्रहणाध्यवसायः ॥
भव्या भव्यभेदेन द्विविधा भव्यमार्गणा । तत्र भव्यः सिद्धिगमनयोग्यः तद्विपरीतोऽभव्यः ॥