SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ मोक्षनिरूपणम् ( ५३ ) स्वात्मन्यवस्थानं कृत्स्नकर्मविमुक्तयाऽऽत्मनः मोक्षः । तद्वान् मुक्तः । सोऽनुयोगद्वारैः सिद्धान्तप्रसिद्धैस्सत्पदप्ररूपणादिभिर्नवभिर्निरूपणादुपचा रेण नवविधः ॥ गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया अनुमानेनागमेन वा निरूपणं सत्पदप्ररूपणा ॥ तत्र गतीन्द्रियकाय योगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्व संज्ञयाहारकरूपाश्चतुर्दश मूलभूता मार्गणाः । नरकतिर्यङ्मनुष्यदेव भेदेन चतस्रो गतिमार्गणाः । एकद्वित्रिचतुःपञ्चेन्द्रियभेदेन पञ्चेन्द्रियमार्गणाः । पृथिव्यप्तेजोवायुवनस्पतित्रसभेदेन षट् काय मार्गणाः। मनोवाक्कायास्तिस्रो योगमार्गणाः। पुंस्त्रीनपुंसकभेदेन तिस्रो वेदमार्गणाः । क्रोधमानमायालो भरूपाश्चतस्रः कषायमार्गणाः । मतिश्रुतावधिमनः पर्यवकेवलमत्यज्ञानश्रुताज्ञानविभङ्गज्ञान भेदादष्टौ ज्ञानमार्गणाः । मिथ्यादृष्टीनां मतिश्रुतावधयः क्रमेण मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानान्युच्यन्ते । अत्र पञ्चविधत्वेऽपि ज्ञानानामन्वेषणाप्रस्तावे आद्यत्रयविपरीतानामपि मत्यज्ञानादीनां ज्ञानत्वेन ग्रहणादष्टविधत्वं ज्ञानमार्गणाया बोध्यम् । मनःपर्यवकेवलयोस्तु वैपरीत्याभाव एव । अग्रे संयमादिष्वप्येवमेव वैपरीत्येन मार्गणा विज्ञेयाः । सामायिक
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy