________________
(६०)
तत्त्वन्यायविभाकरे रुषसहगमनस्वभावो अनुगामी । उत्पत्त्यवच्छेदकशरीरावच्छेदनैव विषयावभासकोऽननुगामी । स्वोत्पत्तितः क्रमेणाल्पविषयो हीयमानः। स्वोत्पत्तितः क्रमेणाधिकविषयी वर्धमानः । उत्पत्यनन्तरं पतनशीलः प्रतिपाती। तद्विपरीतोऽप्रतिपाती ॥
संयमविशुद्धिहेतुकं मनोद्रव्यपर्यायमात्रसाक्षात्कारि ज्ञानं मनःपर्यवः । स ऋजुमतिविपुलमतिभेदेन द्विविधः । आद्यज्ञानवान् कदाचित्प्रच्यवते । द्वितीयस्तु न कदापीत्यनयोवैषम्यम् ।।
व्यवहितात्मद्रव्यजन्यं ज्ञानं परोक्षम् । . इन्द्रियमनोजन्यो विशदावभासस्सांव्यवहारि
कप्रत्यक्षम् । अनुमानादिभ्यो विशेषप्रकाशनात् विशदत्वमस्य । तद्विविधं ऐन्द्रियं मानसश्च । इन्द्रियजन्यं प्रत्यक्षं ऐन्द्रियम् । मनोजन्यं प्रत्यक्षं मानसम्॥ ___ तत्रेन्द्रियं द्रव्यभावभेदेन द्विविधम् । निर्वृत्त्युपकरणभेदेन द्रव्येन्द्रियं द्विविधम् । निर्वृत्तिराकारः, निवृत्तीन्द्रियमपि द्विविधं बाह्याभ्यन्तरभेदात् । बाह्य गोलकादि । आन्तरं कदम्बपुष्पाद्याकारः पुद्गलविशेषः । आन्तरेन्द्रियनिष्ठः स्वस्वार्थग्रहणसामर्थ्यात्मकशक्तिविशेष उपकरणेन्द्रियम् । पुद्गल