SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥ बन्धनिरूपणम् (४९) आत्मप्रदेशैः शुभाशुभकर्मसम्बन्धोबन्धः। स च मिथ्यात्वाविरतिकषाययोगैर्यथायोगं समुत्पद्यते ।। तत्रायथार्थश्रद्धानं मिथ्यात्वम् । तच्चाऽऽभिग्रहिकानाभिग्रहिकाऽऽभिनिवेशिकसांशयिकानाभोगिकभेदेन पञ्चविधम् ॥ __कुदर्शने सद्दर्शनजन्यं श्रद्धानमाभिग्रहिकम् । सर्वदर्शनविशेष्यकसमत्वप्रकारकप्रतिपत्तिप्रयोजकं श्रद्धानमनाभिग्रहिकम् । तत्त्ववेत्तृत्वेऽप्यतदर्थेषु तदर्थताभिग्रह आभिनिवेशिकम् । अर्हत्तत्त्वधर्मिकसत्यत्वसंशयजनकं मिथ्यात्वं सांशयिकम् । दार्शनिकोपयोगशून्यजीवानां मिथ्यात्वमनाभोगिकम् ॥ हिंसाद्यव्रतेभ्यः करणैर्योगैश्चाविरमणमविरतिः। तस्याश्च मनःपश्चेन्द्रियाणां स्वस्वविषयेभ्यः पृथिव्यप्तेजोवायुवनस्पतित्रसरूपषड्विधजीवहिंसातश्चाप्रतिनिवर्तनरूपत्वात् द्वादशविधत्वम् ।। कषायः पूर्वोदितपञ्चविंशतिविधः । वेदत्रयहास्यषदात्मकनोकषायः कषायसहगामित्वात्कषायपदवाच्यः ॥ योगो मनोवाकायव्यापारः। तत्र सत्यासत्यमिश्रव्यवहारविषयकमनोवाग्व्यापारा अष्टौ, तथौदा
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy