SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (४८) . तत्त्वन्यायविभाकरे यकं सोद्वेगचिन्तनमार्त्तम् । षष्ठगुणस्थानं यावदिदं भवति । हिंसाऽसत्यस्तेयसंरक्षणान्यतमानुबन्धिचिन्तनं रौद्रम् । आपञ्चममेतत् । आज्ञापायविपाकसंस्थानान्यतमविषयकं पर्यालोचनं धर्मध्यानम् । अप्रमत्ततः क्षीणमोहं यावत् । आज्ञाद्यविषयकं निर्मलं प्रणिधानं शुक्लम् । तच्च पृथक्त्ववितकैकत्ववितर्कसूक्ष्म क्रियव्युपरतक्रियभेदेन चतुर्विधम् । पूर्वविदां पूर्वश्रुतानुसारतोऽन्येषां तमन्तरेणार्थव्यञ्जनयोगान्तरसंक्रान्तिसहितमेकद्रव्य उत्पादादिपर्यायाणामनेकनयैरनुचिन्तनं पृथक्त्ववितर्कम् । इदं सविचारम् । पूर्वविदां पूर्वश्रुतानुसारेणान्येषां तद्भिन्नश्रुतानुसारेणार्थव्यञ्जनसंक्रान्तिरहितमेकद्रव्ये एकपर्यायविषयानुचिन्तनमेकत्ववितर्कम् । इदन्त्वविचारम् । सूक्ष्मकायक्रियाप्रतिरूद्धसूक्ष्मवाङ्म नःक्रियस्य सूक्ष्मपरिस्पन्दात्मकक्रियावद्ध्यानं सूक्ष्मक्रियम् । इदमप्रतिपाति, प्रतिपाताभावात् । निरुद्वसूक्ष्मकायपरिस्पन्दात्मकक्रियस्य ध्यानं व्युपरतक्रियम् । इदमप्यप्रतिपाति । आये द्वे एकादशद्वादशगुणस्थानयोरन्त्ये द्वे केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेण । अनेषणीयस्य संसक्तस्य वान्नादेः कायकषायाणाञ्च परित्यजनमुत्सर्गः॥ इति निर्जरातत्त्वम्
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy