SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ निर्जरानिरूपणम् (४७) सादुर्भेद्यस्य दिवसमासादिक्रमेण श्रमणपर्यायापनयनं छेदः । प्रारम्भतः पुनर्महाव्रतारोपणं मूलम् । अकृततपोविशेषस्य दुष्टतरस्य कियत्कालं व्रतानारोपणमनवस्थाप्यम् । राजवधादितीर्थकराद्याशातना करणेन यावद् द्वादशवर्षमतिचारपारगमनतो राजप्रतिबोधादिप्रवचनप्रभावनया पुनः प्रव्राजनं पाराश्चितम् ॥ ज्ञानदर्शनचारित्रोपचारान्यतमो विनयः। तत्र नम्रतापूर्वकं ज्ञानाभ्यासो ज्ञानविनयः। जिनेन्द्रोक्तपदार्थषु निश्शङ्कितत्वं दर्शनविनयः। श्रद्धयानुष्ठानेन च चारित्रप्ररूपणं चारित्रविनयः। गुणाधिकेषु अभ्युस्थानाद्यनुष्ठानमुपचारविनयः॥ प्रभुसिद्धान्तोदितसेवाद्यनुष्ठानप्रवृत्तिमत्त्वं वैयावृत्यम् । तच्चाचार्योपाध्यायतपस्विशैक्षकग्लानकुलगणसंघसाधुसमनोज्ञभेदाद्दशविधम् । एतल्लक्षणान्यग्रे वक्ष्यन्ते ॥ कालादिमर्यादयाध्ययनं स्वाध्यायः । चेतसो योगनिरोधपूर्वकैकविषयस्थैर्यतापादनं ध्यानम् । योगनिरोधः केवलिनां ध्यानम् । तदातरौद्रधर्मशुक्लभेदेन चतुर्विधम् ॥ इष्टानिष्टवियोगसंयोगरोगतन्निदानान्यतमविष
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy