SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (४६) तत्त्वन्यायविभाकरे वृत्तिसंक्षेपः। रसवत्पदार्थेषु द्विव्यादीनां त्यागपुरस्सरं विरसरूक्षाद्याहारग्रहणं रसत्यागः । केशोल्लुश्चनादिक्लेशसहनं कायक्लेशः। इन्द्रिययोगकषायादीन्नियम्य विविक्तस्थानासेवनं संलीनता । सा चतुर्विधा। इन्द्रियकषाययोगविविक्तचर्याभेदात् । प्राप्तेन्द्रियविषयेष्वरक्तद्विष्टताभाव इन्द्रियसंलीनता । अनुदितक्रोधस्योदयनिरोधः प्राप्तोदयस्य नैष्फल्यकरणं कषायसंलीनता। कुशलाकुशलयोगानां प्रवृत्तिनिवृत्ती योगसंलीनता। शून्यागारादौ निर्बाधे स्न्यादिवर्जिते स्थाने स्थितिर्विविक्तचर्यासंलीनता । प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानोत्सर्गाः षडाभ्यन्तरतपांसि ॥ अतिचारविशुद्धिजनकानुष्ठानं प्रायश्चित्तम् । तच आलोचनप्रतिक्रमणमिश्रविवेकव्युत्सर्गतपश्छेदमूलानवस्थाप्यपाराश्चितभेदाद्दशविधम् ॥ गुर्वभिमुखं समर्यादं स्वापराधप्रकटनमालोचनम् । अतिचारात्प्रतिनिवर्तनं प्रतिक्रमणम् । उभयात्मकं मिश्रम् । गृहीतवस्तुनोऽवगतदोषत्वे परित्यजनं विवेकः। गमनागमनादिषु विशिष्टचित्तैकाग्र्यपूर्वकं योगव्यापारपरित्यागो व्युत्सर्गः। छेदग्रन्थजितकल्पान्यतरानुसारेण गुर्वनुशिष्टानुष्ठानविशेषस्तपः। तप
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy