SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ निर्जरानिरूपणम् (४५) क्रमेण बद्धकर्मपुद्गलानां तपोविपाकान्यतरेण विध्वंसो निर्जरा। विध्वंसोऽयं विपाकोदयेन प्रदेशोदयेन च द्विधा भवति । विपाकोदयश्च मिथ्यात्वादिहेतुककर्मपुद्गलानां जघन्योत्कृष्टस्थितितीव्रमन्दानुभावानां स्वभावेन करणविशेषेण वोदयावलिकाप्रविष्टानां रसोदयपूर्वकानुभवनम् । अनुदयप्राप्तकर्मप्रकृतिकर्मदलिकं उदयप्राप्तसमानकालीनसजातीयप्रकृतौ संक्रमय्यानुभवनं प्रदेशानुभवः॥ सेयं सकामाकामभेदाभ्यां द्विधा । सम्यग्दृष्टिदेशविरतसर्वविरतानां साभिलाषं कर्मक्षयाय कृतप्रयत्नानां यः कर्मणां विध्वंसः सा सकामा। मिथ्यादृष्टीनां ऐहिकसुखाय कृतप्रयत्नानां तपस्यादिना कर्मणां विध्वंसोऽकामा । आत्मप्रदेशेभ्यः कर्मणां निर्जरणं द्रव्यनिर्जरा । निर्जरानिमित्तशुभाध्यवसायो भावनिर्जरा ॥ शरीरवृत्तिरसादिधातुकर्मान्यतरसन्तपनं तपः। तत्र बाह्यतपांसि अनशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनतारूपेण षड्विधानि ॥ इत्वरं यावज्जीवं वाऽऽहारपरित्यागोऽनशनम् । स्वाहारपरिमाणादल्पाहारपरिग्रहणमूनोदरिका । नानाविधाभिग्रहधारणेन भिक्षावृत्तेः प्रतिरोधनं
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy