SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (४४) तत्त्वन्यायविभाकरे पि स्युः कदापि न । यदा स्युस्तदा जघन्येनैको द्वौ त्रयो वोत्कृष्टतो द्विशताद्यावन्नवशतम् । प्रतिपन्नापेक्षया तु कचिन्न स्युः कचिच्च जघन्येनोत्कृष्टतश्च द्विशताद्यावन्नवशतकोटि स्युः॥ परिहारविशुद्धिका अप्येवमेव किन्तु प्रतिपन्नापेक्षया जघन्येनैको द्वौ त्रयः, उत्कर्षेण च द्विसहस्रात् यावन्नवसहस्रं स्युः॥ सूक्ष्मसम्परायश्च कचिन्न स्युः कचिच्च जघन्येनैको द्वौ त्रयः । उत्कृष्टतः क्षपकश्रेण्यां अष्टोत्तरशतं उपशमश्रेण्यां चतुःपञ्चाशत्स्युः । प्रतिपन्नापेक्षया क्वचिन्न स्युः कचिच्च जघन्येनैको द्वौ त्रयः । उत्कृष्टतो द्विशतान्नवशतं यावत् स्युः ॥ ___ यथाख्यातास्तु सूक्ष्मसंपरायवत् । प्रतिपन्नापेक्षया तु जघन्येनोत्कृष्टतश्च द्विकोटीतो यावन्नवकोटि भवेयुरिति ॥ ___अल्पबहुत्वद्वारे-पञ्चसु संयतेषु सर्वेभ्योऽल्पाः सूक्ष्मसम्परायाः। तेभ्यः परिहारविशुद्धिकाः संख्यातगुणाः । तेभ्यो यथाख्याताः संख्यातगुणाः तेभ्योऽपि छेदोपस्थापनीयास्संख्यातगुणाः, तेभ्योऽपि च सामायिकास्संख्यातगुणा बोध्या इति ॥ इति षट्त्रिंशद्वाराणि ॥ इति संवरतत्त्वम् ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy