________________
द्वारनिरूपणम्
( ४३ )
र्वेदनाकषायमरणवैक्रियतैजसाहारकाष्षट् समुद् - घाताः भवन्ति । परिहारविशुद्धिकस्य वेदनाकषायमरणात्मकास्त्रयः । सूक्ष्मसम्परायस्य न कोऽपि । यथाख्यातस्य तु केवलिसमुद्घात एव भवेदिति ॥
क्षेत्रद्वारे - सामायिक छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराया लोकस्यासंख्यात भागे स्युः । यथाख्यातस्तु असंख्यात भागे, असंख्यात भागेषु केवलिसमुद्घातापेक्षया सर्वलोकव्याप्तश्च स्यादिति ॥
स्पर्शनाद्वारे- सामायिकादयो यावत्सु भागेषु लोकस्य स्युस्ते तावन्तो भागान् स्पृशेयुः । समीपतरवर्तिपार्श्वभागस्पर्शनेन किञ्चिदधिकानपीति ॥
भावद्वारे - सामायिकाश्चत्वारः क्षायोपशमिकभावे स्युः । यथाख्यातस्तु औपशमिके क्षायिके च स्यादिति ॥
परिमाणद्वारे - सामायिकाः प्रतिपद्यमानापेक्षयैकस्मिन् काले कदाचिद्भवेयुः कदाचिच्च न । यदा भवेयुस्तदा जघन्येनैको द्वौ त्रयो वा उत्कृष्टतो द्विसहस्रात् यावन्नवसहस्रम् । पूर्वप्रतिपन्नापेक्षया जघन्यत उत्कृष्टतश्च द्विसहस्रकोटीतो यावन्नवसहस्रकोटि भवेयुः ॥
छेदोपस्थापनीयास्तु प्रतिपद्यमानापेक्षया कदा