SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे ( ४२ ) कोटिं यावत् । एवमेव छेदोपस्थापनीयस्य । परिहारविशुद्धिकस्य जघन्येनै कस्समयः । उत्कृष्टत एकोनत्रिशद्वर्षन्यूनकोटिं यावत् । सूक्ष्मसम्परायस्य जघन्येनैकस्समयः । उत्कृष्टतोऽन्तर्मुहूर्त्तम् । यथाख्यातस्य तु सामायिकस्येव स्यादिति । अनेकजीवापेक्षया तु सामायिकास्सर्वदा भवेयुः । छेदोपस्थापनीया जघन्यतस्सार्धद्विशतवर्षपर्यन्तमुत्कृष्टतः पञ्चाशल्लक्षकोटिसागरोपमं यावत्स्युः । परिहारविशुद्धिका जघन्येन किञ्चिदून द्विशतवर्षकालमुत्कृष्टतः किञ्चिदून द्विपूर्वकोटिवर्षकालपर्यन्तं स्युः ॥ संयमग्रहणानन्तरमन्यस्य अन्तरद्वारे - एकस्य संयमग्रहणे जघन्यत एकस्समयः उत्कृष्टतस्संख्यातवर्षाण्यन्तरकालः । एवं यथाख्यातपर्यन्तं बोध्यः ॥ सामायिकैश्शून्यः कालो नास्त्येव । छेदोपस्थापनीयैश्शून्यः कालो जघन्येन त्रिषष्टिसहस्रवर्षाण्युत्कृष्टतोऽष्टादशकोटाकोटिसागरोपमः । परिहारविशुद्धिरहितः कालो जघन्येन चतुरशीतिसहस्रवर्षायुत्कृष्टोऽष्टादशकोटाकोटिसागरोपमः । सूक्ष्मसम्परायरहितः कालो जघन्येनैकः समयः उत्कृष्टतषण्मासाः । यथाख्यातरहितः कालो नास्त्येव ॥ समुद्घातद्वारे- सामायिकछेदोपस्थापनीययो
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy