SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ (५०) तत्त्वन्यायविभाकरे रिकौदारिकमिश्रवैक्रियवैक्रियमिश्राऽऽहारकाऽऽहारकमिश्रकार्मणशरीरजन्यव्यापारास्सप्तेति पश्चदशयोगाः ॥ रक्तद्विष्टात्मसम्बद्धानां कार्मणस्कन्धानां परिणामविशेषेण स्वस्वयोग्यकार्यव्यवस्थापनं प्रकृतिबन्धः। प्रविभक्तानां कर्मस्कन्धानां विशिष्टमर्यादया स्थितिकालनियमनं स्थितिबन्धः। परिपाकमुपयाता नां विशिष्टकर्मस्कन्धानां शुभाशुभविपाकानुभवनयोग्यावस्था रसबन्धः। प्रकृत्यादित्रयनिरपेक्षं दलिकसंख्याप्राधान्येन कर्मपुद्गलानां ग्रहणं प्रदेशबन्धः। बन्धाश्चैते चत्वार एकविधाध्यवसायविशेषेण जायन्ते संक्रमोद्वर्तनादिकरणविशेषाश्च ॥ ____करणविशेषाश्च बन्धसंक्रमोद्वर्तनापवर्तनोदीरणोपशमनानिधत्तिनिकाचनाभेदादष्टविधाः ॥ तत्र बद्धात्मनो वीर्यपरिणामविशेषः करणम् । वीर्यश्चात्र योगकषायरूपं विवक्षितम् ॥ __ कर्मणामात्मप्रदेशैः सहान्योन्यानुगमनप्रयोजकवीर्यपरिणामो बन्धनकरणम् । अत्र योगात्मकवीर्येण प्रकृतिप्रदेशयोः कषायैश्च स्थित्यनुभागयोबन्धो जायते ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy