SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ तवन्यायविभाकरे परिहारविशुद्धिको वैमानिक एव स्यात् । तत्रापि जघन्यतः सौधर्मकल्प उत्कृष्टतः सहस्रारकल्पे स्यात् । सूक्ष्मसंपरायः अनुत्तरविमाने स्यात् ॥ ( ३६ ) यथाख्यातसंयतो देवगतौ स्याच्चेत तदानुत्तरविमान एव स्यात् अथवा सिद्धिगतिं यायादिति । तत्र सुधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तक महाशुक्रसहस्रारानतप्राणतारणाच्युतभेदेन द्वादशविधा देवलोकाः कल्पोपपन्नदेवानाम् । तदुपरि सुदर्शनसुप्रतिबद्धमनोरम सर्व भद्रविशालसुमनससौमनसप्रीतिकरादित्यभेदेन नवग्रैवेयकाः । तदुपरि वि जयवैजयन्तजयन्तापराजित सर्वार्थसिद्ध भेदेन पञ्चाउत्तराः । उभये कल्पातीतानाम् || चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः । पिशाचभूतयक्षराक्षस किंनर किम्पुरुषमहोरगगन्धर्वा अष्टविधा व्यन्तराः । असुरनागसुवर्णविद्युदग्निद्वीपोदधिदिक्पवनस्तनितकुमारभेदेन दशविधा भव नपतयः ॥ संयमस्थानद्वारे- सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायाणां प्रत्येकं संयमस्थानान्यसंख्यातानि । यथाख्यातस्य त्वेकमेव संयमस्थानमिति ।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy