SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ द्वारनिरूपणम् (३५) तदा जन्मसद्भावाभ्यां तृतीयचतुर्थपञ्चमेषु पूर्वक्रमविपरीतेष्वारकषु, संहरणतस्सर्वासु स्यात् । यदि नोउत्सर्पिण्यवसर्पिण्यां तदा महाविदेहे दुःषमसुषमासदृश्यारके स्यात् । एवं छेदोपस्थापनीयोऽपि, परन्तु जन्मसद्भावापेक्षया नोउत्सर्पिण्यवसर्पिण्यां न स्यात् । परिहारविशुद्धिसंयतः उत्सर्पिण्यवसर्पिण्योः काले स्यान्नतु नोउत्सर्पिण्यवसर्पिणीकाले। उत्सर्पिण्यवसर्पिण्योः यथायोगं द्वितीयतृतीयचतुर्थपञ्चमारकेषु ॥ सूक्ष्मसंपरायो जन्मसद्भावाभ्यां कालत्रये आरकमाश्रित्य तु सामायिकवत्स्यात्। यथाख्यातोऽप्येवं संहरणतस्तु सर्वेष्वारकेषु ।। रूपरसाद्युत्कर्षप्रयोजकः काल उत्सर्पिणी । रूपरसादिहानिप्रयोजकः कालोऽवसर्पिणी । तत्रावसर्पिण्यां सुषमसुषमासुषमासुषमदुष्षमादुष्षमसुषमादुष्षमादुष्षमदुष्षमारूपा: षडारका भवन्ति । उत्सर्पिण्यां व्युत्क्रमतः षडारकास्त एव । गतिद्वारे-सामायिकछेदोपस्थापनीयौ मृत्वा देवगति यायात् । तत्रापि वैमानिक एव। तत्रापि जघन्यतः प्रथमदेवलोकमुत्कृष्टतस्त्वनुत्तरविमानं यावत् । विराधकश्चेद्यः कोऽपि भवनपतिः स्यात् ।।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy