SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (३४) तत्त्वन्यायविभाकरे तीर्थद्वारे-तीर्थेऽप्यतीर्थेऽपि सामायिको भवेत्। अतीर्थे तु तीर्थंकरः प्रत्येकबुद्धश्च स्यात् । छेदोपस्थापनीयपरिहारविशुद्धिको तीर्थ एव । सूक्ष्मसंपराय यथाख्यातो सामायिक इवेति ॥ लिङ्गद्वारे-सामायिकछेदोपस्थापनीयसूक्ष्मसम्पराययथाख्याताः द्रव्यतः स्वलिङ्गेऽन्यलिङ्गे गृहिलिङ्गेऽपि । भावतस्तु स्वलिङ्ग एव भवेयुः । परिहारविशुद्धिकस्तु द्रव्यतो भावतश्च स्वलिङ्ग एवेति ।। ___ शरीरद्वारे-सामायिकछेदोपस्थापनीययोरौदारिकतैजसकार्मणानि औदारिकतैजसकार्मणवैक्रियाणि औदारिकवैक्रियाहारकतैजसकार्मणानि वा शरीराणि भवन्ति । शेषाणान्त्वौदारिकतैजसकार्मणानीति॥ क्षेत्रद्वारे-जन्मसद्भावावाश्रित्य सामायिकछेदोपस्थापनीयसूक्ष्मसंपराययथाख्याताः कर्मभूम्यां संहरणापेक्षया अकर्मभूमौ भवेयुः। परिहारविशुद्धिकस्तु कर्मभूमावेव भवेत् । नास्य संहरणं भवेदिति॥ कालद्वारे-सामायिकः उत्सर्पिण्यामवसर्पिण्यां नोउत्सर्पिण्यवसर्पिण्यामपि काले स्यात् । तत्र यद्युत्सर्पिण्यां स्यात्तदा जन्मतः दुःषमादुःषमसुषमासुषमदुःषमारूपे आरकत्रये, सदभावतस्तृतीयतु र्ययोः,संहरणतो यत्र क्वापि स्यात् । यद्यवसर्पिण्यां
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy