SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ द्वारनिरूपणम् (३३) कल्पातीते । सूक्ष्मसंपराययथाख्यातौ तु कल्पातीत एव स्याताम् ॥ चारित्रद्वारे-सामायिकः पुलाको बकुशः कषा. यकुशीलो वा स्यात् । एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकसूक्ष्मसंपरायौ कषायकुशीलावेव यथाख्यातस्तु निर्ग्रन्थः स्नातको वेति ॥ प्रतिसेवनाद्वारे-सामायिकछेदोपस्थापनीयौ मूलोत्तरगुणप्रतिसेवकावप्रतिसेवकौ च भवतः । परिहारविशुद्धिकोऽप्रतिसेवकः । एवं सूक्ष्मसंपराययथाख्यातावपि विज्ञेयाविति ॥ ज्ञानद्वारे-सामायिकादिचतुर्णा द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति । यथाख्यातस्य एकादशद्वादशगुणस्थानयोश्चत्वारि ज्ञानानि, अर्ध्वगुणस्थानयोः केवलज्ञानं भवतीति ॥ श्रुतद्वारे-सामायिकछेदोपस्थापनीययोजघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु यावच्चतुर्दशपूर्व श्रुतं । परिहारविशुद्धस्य जघन्यतो नवमपूर्वस्य आचारवस्तु, उत्कृष्टतस्त्वपूर्णदशपूर्व यावत्। सूक्ष्मसांपरायिकस्य तु सामायिकस्येव । यथाख्यातस्य निग्रंथस्य सामायिकस्येव । स्नातकस्य श्रुतं नास्तीति ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy