SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (३२) तत्त्वन्यायविभाकरे ... तत्र प्रज्ञापनाद्वारे सामायिकसंयत इत्वरिको यावत्कथिकश्चेति द्विविधः । छेदोपस्थापनीयस्सातिचारी निरतिचारी चेति द्विविधः। परिहारविशुद्धिको निर्विशमानो निर्विष्टकायिकश्चेति द्विविधः । सूक्ष्मसंपरायसंयत उपशमश्रेणीतः प्रच्यवमानः उपशमक्षपकश्रेण्यन्यतरारूढश्चेति द्विविधः। यथाख्यातो. ऽपि छद्मस्थः केवली चेति द्विविध इति बोध्यम् ।। वेदद्वारे-सामायिको नवमगुणस्थानावधि वेदको वेदत्रयवांश्च । नवमान्ते तूपशमात् क्षयाद्वा वेदानामवेदकोऽपि भवेत् । एवं छेदोपस्थापनीयोऽपि । परिहारिकः पुरुषवेदो वा पुनपुंसकवेदो वा स्यात् । सूक्ष्मसंपरायो यथाख्यातश्चावेदक एवेति ।। रागद्वारे-सामायिकादिचत्वारस्संयतास्सरागा एव, यथाख्यातसंयतस्त्वराग एवेति । कल्पद्वारे सामायिकसूक्ष्मसंपराययथाख्याताः स्थितकल्पेऽस्थितकल्पे च छेदोपस्थापनीयः स्थितकल्प एव भवेत् परिहारविशुद्धिकोऽपीदृश एव भवेत् । अस्थितकल्पो मध्यमतीर्थकरतीर्थेषु विदेहे चेति ॥ अथवा सामायिको जिनकल्पस्थविरकल्पकल्पातीतेषु भवेत्। छेदोपस्थापनीयपरिहारविशुद्धिको न
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy