SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ संवरनिरूपणम् ( ३१ ) तपोविशेषविशिष्टं परिशुद्धिमच्चारित्रं परिहारविशुद्धिकम् । तदपि निर्विशमानकं निर्विष्टकायिकचेति द्विविधम् । निर्विशमानकाः प्रक्रान्तचारित्रोपभोक्तारः, निर्विष्टकायिकाश्च समुपभुक्तप्रक्रान्तचारित्रकायिकाः। एते चाद्यान्तिमतीर्थकरतीर्थकाल एव ॥ अत्यन्तकृशकषायवच्चारित्रं सूक्ष्मसंपरायः । अयं संक्लिश्यमानको विशुद्ध्यमानकश्चेति द्विप्रकारः । उपशमश्रेणीतः प्रपततः प्रथमः । द्वितीयस्तु श्रेणिमारोहतः ॥ निष्कषायं चारित्रं यथाख्यातम् । इदमप्युपश कषायाणामुपशमादनुदयाच्चाक्षपकश्रेणिमधिगतस्य तु मश्रेणिमुपयातस्य न्तर्मुहूर्त्तस्थितिकम् । कषायाणां सर्वथा क्षयाजघन्यतोऽन्तर्मुहूर्त्तस्थितिकालीनमुत्कृष्टतश्च देशोनपूर्वकोटिप्रमाणं बोध्यम् । आद्यं प्रतिपाति, द्वितीयमप्रतिपाति ॥ तत्र द्वाराणि - प्रज्ञापनावेदरागकल्पचारित्रप्रतिसेवनाज्ञानतीर्थ लिङ्गशरीरक्षेत्रकालगतिसंयमसन्निकर्षयोगोपयोगकषायलेश्या परिणामबन्धवेदनोदीरणोपसम्पद्धानसंज्ञाहार भवाकर्षकालमानान्तर समुद्घातक्षेत्रस्पर्शनाभावपरिणामाल्पबहुत्वेभ्यः षट्त्रिं शद्विधानि ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy