SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (३० ) तत्त्वन्यायविभाकरे किञ्चन्यब्रह्मचर्यभेदाद्दशविधः । एतल्लक्षणान्यग्रे वक्ष्यन्ते ॥ - मोक्षप्रवृत्त्युत्तेजकं चिन्तनं भावना। अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वाश्रवसंवरनिर्जरालोकस्वभावबोधिदुलभधर्मस्वाख्यातभेदावादशधासा। एतल्लक्षणान्यप्यग्रे वक्ष्यन्ते ॥ , कर्माष्टकशून्यताप्रयोजकमनुष्ठानं चारित्रम् । तच सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातभेदेन पञ्चविधम् ।। छेदोपस्थापनादिचतुष्टयभिन्ना सर्वसावद्ययोगविरतिः सामायिकम् । तद् द्विविधम् । इत्वरकालं यावज्जीवकालश्चेति । भाविव्यपदेशयोग्यं स्वल्पकालं चारित्रमित्वरकालम् । प्रथमान्तिमतीर्थकरतीर्थयोरेवैतत । भाविव्यपदेशान्तराभाववत् सामायिकं यावज्जीवकालम् । इदश्च मध्यमद्वाविंशतीर्थकरतीर्थान्तर्गतसाधूनां विदेहक्षेत्रवर्तिनाश्च ॥ पूर्वपर्यायोच्छेदे सत्युत्तरपर्यायारोपणयोग्यं चा. रित्रं छेदोपस्थापनीयम् । तच निरतिचारसातिचारभेदेन द्विविधम् । शैक्षकादेरधीतविशिष्टाध्ययनविदो यदारोप्यते तन्निरतिचारम् । खण्डितमूलगुणस्य पुनव्रतारोपणं सातिचारम् । उभयमपि प्रथमान्तिमतीर्थकरतीर्थकाल एव ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy