________________
संवरनिरूपणम्
( २९) परप्रयुक्तताडनतर्जनादीनां कायविनश्वरत्वविभावनया सहनं वधपरीषहः, वेदनीयक्षयोपशमजन्योऽयम् । स्वधर्मदेहपालनार्थं चक्रवर्तिनोऽपि साधोयाचनालज्जापरिहारो याचनापरीषहः, चारित्रमोहहनीयक्षयोपशमजन्योऽयम् ॥
याचितेऽपि वस्तुन्यप्राप्तौ विषादानवलम्बनमलाभपरीषहः, लाभान्तरायक्षयोपशमजन्योऽयम् । रोगोद्भवे सत्यपि सम्यक् सहनं रोगपरीषहः ।जीर्णशीर्णसंस्तारकाधस्तनतीक्ष्णतृणानां कठोरस्पर्शजन्यक्लेशसहनं तृणस्पर्शपरीषहः । शरीरनिष्ठमलापनयनानभिलाषा मलपरीषहः । वेदनीयक्षयोपशमजन्या एते । भक्तजनानुष्ठितातिसत्कारेऽपि गर्वपराङ्मुखत्वं सत्कारपरीषहः, अयश्च चारित्रमोहनीयक्षयोपशमजन्यः। बुद्धिकुशलत्वेऽपि मानापरिग्रहः प्रज्ञापरीषहः, ज्ञानावरणक्षयोपशमजन्यः । बुद्धिशून्यत्वेऽप्यखिन्नत्वमज्ञानपरीषहः,ज्ञानावरणक्षयोपशमजन्यः। इतरदर्शनचमत्कारदर्शनेऽपि स्वदेवतासान्निध्याभावेऽपि जैनधर्मश्रद्धातोऽविचलनं सम्यक्त्वपरीषहः, दर्शनमोहनीयक्षयक्षयोपशमजन्योऽयम् ।। ___ मोक्षमार्गानुकूलयतिप्रयत्नो यतिधर्मः । स च क्षान्तिमार्दवार्जवनिर्लोभतातपस्संयमसत्यशौचा