SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ (२८) तत्त्वन्यायविभाकरे सायामदुष्टजलाद्यलाभेऽपि तृट्परिसहनं पिपासापरीषहः । प्रचुरशीतबाधायामप्यत्यल्पैरेव वस्त्रादिभिः शीतोपसहनं शीतपरीषहः । प्रभूतोष्णसंत. तोऽपि जलावगाहनाद्यसेवनमुष्णपरीषहः । समभावतो दंशमशकाद्युपद्रवसहनं दंशपरीषहः । एते वेदनीयक्षयोपशमजन्याः॥ सदोषवस्त्रादिपरिहारेणाल्पमूल्याल्पवस्त्रादिभिर्वर्तनमवस्त्रपरीषहः। अप्रीतिप्रयोजकसंयोगसमवधाने सत्यपि समतावलम्बनमरतिपरीषहः। कामबुद्ध्या स्त्र्याद्यङ्गप्रत्यङ्गादिजन्यचेष्टानामवलोकनचिन्तनाभ्यां विरमणं स्त्रीपरीषहः । एते च चारित्रमोहनीयक्षयोपशमजन्याः ॥ ___ एकत्र निवासममत्वपरिहारेण सनियमं ग्रामादिभ्रमणजन्यक्लेशादिसहनं चर्यापरीषहः । वेदनीयक्षयोपशमजन्योऽयम् ॥ स्त्रीपशुपण्डकवर्जिते स्थाने निवासादनुकूलप्रतिकूलोपसर्गसंभवेऽप्यविचलितमनस्कत्वं निषद्यापरीषहः। चारित्रमोहनीयक्षयोपशमजन्योऽयम्। प्रतिकूलसंस्तारकवसतिसेवनेऽनुद्विग्नमनस्कत्वं शय्यापरीषहः । अयश्च वेदनीयक्षयोपशमजन्यः। निर्मूलं समूलं वा स्वस्मिन् कुप्यत्सु जनेषु समतावलम्बनमाक्रोशपरीषहः, चारित्रमोहनीयक्षयोपशमजन्योऽयम् ।।
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy