SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ संवरनिरूपणम् (२७) शून्यपरिशोधितभूमौ विधिना मूत्रपुरीषादिपरित्यजनमुत्सर्गः ॥ योगस्य सन्मार्गगमनोन्मार्गगमननिवारणाभ्यामात्मसंरक्षणं गुप्तिः । सा च कायवाङ्मनोरूपेण त्रिधा । शयनाऽऽसननिक्षेपाऽऽदानचंक्रमणेषु चेष्टानियमः कायगुप्तिः । उपसर्गपरिषह्यभावाभावेऽपि शरीरे नैरपेक्ष्यं, योगनिरोद्धस्सर्वथा चेष्टापरिहारोऽपि कायगुप्तिः ॥ अर्थवद्भविकारादिसंकेतहुंकारादिप्रवृत्तिरहितं शास्त्रविरुद्धभाषणशून्यं वचोनियमनं वाग्गुप्तिः । अनेन सर्वथा वानिरोधस्सम्यग्भाषणञ्च लभ्यते, भाषासमितौ सम्यग्भाषणमेव ॥ सावद्यसंकल्पनिरोधो मनोगुप्तिः ॥ प्रतिबन्धकसमवधाने सत्यपि समभावादविचलनं परीषहः। स च क्षुत्पिपासाशीतोष्णदंशावस्त्रारतिवनिताचर्यानषेधिकशय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वविषयकत्वाद् द्वाविंशतिविधः ॥ सत्यामप्यतिशयिताद्वेदनायां सविधिभक्ता, द्यलाभेऽपि क्षुधोपसहनं क्षुत्परीषहः। सत्यां पिपा
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy