SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ (२६) तत्त्वन्यायविभाकरे शान्तमोहस्तूत्कर्षेणान्तर्मुहूर्त्तकालमत्र तिष्ठति।तत ऊर्द्ध नियमादसौ प्रतिपतति । चतुर्वारं भवत्यासंसारमेषा श्रेणिः ॥ क्षपकश्रेण्या कषायनिस्सत्तापादकं स्थानं क्षीणमोहगुणस्थानम् । क्षपकश्रेणिश्चाभवमेकवारमेव भवति । एतदनंतरमेव सकलत्रैकालिकवस्तुस्वभावभासककेवलज्ञानावाप्तिः । आन्तमौहूर्तिकमिदम् ।। योगत्रयवतः केवलज्ञानोत्पादकं स्थानं सयोगिगुणस्थानम् । इदश्चोत्कृष्टतो देशोनपूर्वकोटिप्रमाणम् । जघन्यतोऽन्तर्मुहर्त्तम् ॥ योगप्रतिरोधिशैलेशीकरणप्रयोजकं स्थानमयोगिगुणस्थानम् । आदिमहस्वपञ्चस्वरोच्चारणाधिकरणकालमात्रमानमेतत् ॥ - इति चतुर्दशगुणस्थानानि उपयोगपूर्विका प्रवृत्तिः समितिः । सेर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गभेदेन पञ्चधा। स्वपरबाधापरिहाराय युगमात्रनिरीक्षणपूर्वकं रत्नत्रयफलकं गमनमीर्या । कर्कशादिदोषरहितहितमितानवद्यासंदिग्धाभिद्रोहशून्यं भाषणं भाषा। सूत्रानुसारेणान्नादिपदार्थान्वेषणमेषणा । उपधिप्रभृतीनां निरीक्षणप्रमार्जनपूर्वकग्रहणस्थापनात्मकक्रियाऽऽदाननिक्षेपणा।जन्तु
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy