________________
द्वारनिरूपणम्
( ३७) सन्निकर्षद्वारे-सामायिकसंयतस्य चारित्रपर्याया अनन्नाः। एवं यथाख्यातपर्यन्तानां सर्वेषां बोध्याः। सामायिकस्सामायिकान्तराद्धीनः समानोऽधिकोऽपि स्यात् । हीनाधिकत्वे च षट्स्थानपतितत्वं स्यात् । एवं छेदोपस्थापनीयपरिहारविशुद्धिकापेक्षयापीत्थमेव भाव्यम् । सूक्ष्मसम्परायिकयथाख्यातापेक्षया तु अनन्तगुणहीनचारित्रपर्यायवान्स्यात् ॥
छेदोपस्थापनीय आद्यत्रयचारित्र्यपेक्षया सामायिकवत् स्यात् । अन्त्यद्वयापेक्षयापि तथैव । एवमेव परिहारविशुद्धिकोऽपि ॥
सूक्ष्मसम्पराय आद्यत्रयापेक्षयानन्तगुणाधिक एव । सूक्ष्मसम्परायान्तरापेक्षया तुल्योऽनन्तगुणेन हीनोऽधिकोपि स्यात् ॥ यथाख्यातापेक्षयानन्तगुणहीनः ॥
यथाख्यातस्तु विजातीयसंयतापेक्षयानन्तगुणेनाधिक एव । सजातीयापेक्षया तु तुल्य एवेति ॥
योगद्वारे-आद्यचत्वारस्संयताः योगत्रयवन्तः। यथाख्यातस्तु सयोगी अयोगी चेति ॥
उपयोगद्वारे-आद्यास्त्रयो यथाख्याताश्च साकारनिराकारोपयोगवन्तः स्यात् सूक्ष्मसम्परायस्तु साकारोपयोग्यवेति ॥