SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ गुणस्थाननिरूपणम् (२३) करणत्रयन्तु यथाप्रवृत्यपूर्वानिवृत्तिरूपम् । आयुर्वर्जसप्तकर्मणः स्थिति पल्योपमासंख्यातभागहीनैककोटीकोटिपरिमाणां विधायाभिन्नपूर्वघनीभूतरागद्वेषात्मकग्रन्थिसमीपगमनानुकूलाध्यवसायो यथाप्रवृत्तिकरणम् । घनीभूतरागद्वेषग्रन्थिभेदनप्रयोजकापूर्वाध्यवसायोऽपूर्वकरणम् । मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्योपरितनी विष्कम्भयित्वान्तर्मुहूर्तपरिमाणं तत्प्रदेशवेद्यदलिकाभावप्रयोजकाध्यवसायोऽनिवृत्तिकरणम् । तादृशतत्प्रदेशवेद्यदलिकाभावोऽन्तरकरणम् । श्रेणितो मि. थ्यात्वमोहनीयानन्तानुबन्धिचतुःकषायाद्युपशमनताश्रेणिजन्योपशमसम्यक्त्वं भवति । उभयविधसम्यक्त्वात्पततः सास्वादनगुणस्थानं भवति॥ मिश्रमोहनीयकर्मोदयादन्तर्मुहर्त्तस्थितिकोऽहंदुदिततत्त्वेषु द्वेषाभावो मिश्रगुणस्थानम् । यथान्नापरिचितनालिकेरद्वीपनिवासिमनुजस्यान्ने । अत्र जीवो नायुर्बध्नाति न वा म्रियते । अपि तु सम्यक्त्वं मिथ्यात्वं वाऽवश्यं याति ॥ सम्यक्त्वे सत्यप्रत्याख्यानावरणकषायोदयेन सावद्ययोगात्सर्वथाऽविरमणमविरतसम्यग्दृष्टिगुणस्थानम् । उत्कृष्टतो मनुजभवाधिकषट्षष्ठिसागरोपमस्थितिकमिदम् । सम्यक्त्वश्च भव्यसंज्ञिपञ्चेन्द्रि
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy