SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ( २२ ) तत्त्वन्यायविभाकरे शान्तमोहक्षीणमोहसयोग्ययोगिभेदाच्चतुर्दशविधानि गुणस्थानानि ॥ . . - ज्ञानदर्शनचारित्रात्मकानां जीवगुणानां यथायोगं शुद्ध्यशुद्धिप्रकर्षाप्रकर्षकृताः स्वरूपभेदा गुणस्थानानानि ॥ मिथ्यात्वगुणस्थानश्च व्यक्ताव्यक्तभेदेन द्विविधम् । कुदेवकुगुरुकुधर्मान्यतमस्मिन् देवगुरुधर्मबुद्धिय॑क्तमिथ्यात्वम् । इदश्च संज्ञिपश्चेन्द्रियाणामेव ।। अव्यक्तो मोहोऽव्यक्तमिथ्यात्वम् । इदमनादि। व्यक्तमिथ्यात्वप्राप्तुरेव मिथ्यात्वगुणस्थानं भवेदिति केचित्। अस्य स्थितिभव्यजीवमाश्रित्यानादिसान्ता । सादिसान्ता च पतितभव्यस्य । अभव्यमाश्रित्यानाद्यनन्ता ॥ उपशमसम्यक्त्वपतितस्यानवाप्तमिथ्यात्वस्य सर्वथा यदपरित्यक्तसम्यक्त्वतयाऽवस्थानं तत्सास्वादनगुणस्थानम् । समयादिषडावलिकाकालपर्यन्तमिदम् ।। - अनादिकालानुवृत्तमिथ्यात्वप्रथमकषायचतुष्कोपशमनजन्यं सम्यक्त्वमुपशमसम्यक्त्वम् । तद्विविधम् । अन्तरकरणजन्यं स्वश्रेणिजन्यं चेति । उपशमसम्यक्त्वं करणत्रयापेक्षम् ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy