________________
www
- संवरनिरूपणम्
( २१) रोपकरणनिक्षेपः अनाभोगप्रत्ययिकी । जिनोदितकर्तव्यविधिषु प्रमादादनादरकरणमनवकांक्षप्रत्ययिकी। आतरौद्रध्यानानुकूला तीर्थकृद्विगहितभाषणात्मिका प्रमादगमनात्मिका च क्रिया प्रायोगिकी। इन्द्रियस्य देशोपघातकारिसर्वोपघातकार्यन्यतररूपा क्रिया सामुदायिकी। पररागोदयहेतुः क्रिया प्रेमप्रत्ययिकी । क्रोधमानोदयहेतुः क्रिया द्वेषप्रत्ययिकी । अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य केवलिनो वा सोपयोगं गमनादिकं कुर्वतो या सूक्ष्मक्रिया सेर्यापथिकी । इति क्रियापञ्चविंशतिः॥
समाप्तमाश्रवतत्त्वम् समित्यादिभिः कर्मनिरोधः संवरः । सोऽयमात्मपरिणामो निवृत्तिरूपः। कर्मपुद्गलाऽऽदानविच्छेदो द्रव्यसंवरः । भवहेतुक्रियात्यागस्तनिरोधे विशुद्धाध्यवसायो वा भावसंवरः ॥
स पुनर्द्विविधो देशसर्वभेदात् । देशसंवरस्त्रयोदशगुणस्थानं यावद्भवति । सर्वसंवरस्त्वन्तिमगुणस्थान एव निखिलाश्रवाणां निरुद्धत्वात् । इतरत्र तुन तथा ॥
तत्र मिथ्यात्वसास्वादनमिश्राविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणसूक्ष्मसंपरायोप