SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १२४) तत्त्वन्यायविभाकरे याणां निसर्गादुपदेशाद्वा भवति । उत्कृष्टतोऽपार्धपुद्गलपरावर्तसंसारावशिष्टानामेतद्भवेत् । जघन्यतस्तद्भवमुक्तिगामिनोऽपि ॥ प्रत्याख्यानकषायोदयात्सर्वसावद्यस्यैकदेशाद्विरतस्य जघन्यमध्यमोत्कृष्टान्यतमवद्विरतिधर्मावाप्तिर्देशरिरतगुणस्थानम् । उत्कर्षतो देशोनपूर्वकोटिं यावस्थितिकमिदम् ।। संज्वलनकषायमात्रोदयप्रयुक्तप्रमादसेवनं प्रमत्तसंयतगुणस्थानम् । प्रमादाश्च मदिराकषायविषयनिद्राविकथानामानः पञ्च । देशविरत्यपेक्षयात्र गुणानां विशुद्धिप्रकर्षाऽविशुद्ध्यपकर्षश्च, अप्रमत्तसंयतापेक्षया तु विशुद्ध्यपकर्षोऽविशुद्धिप्रकर्षश्च । एतदन्तमुहूर्त्तमानमिति केचित् । पूर्वकोटिं यावदित्यन्ये । संज्वलनकषायनोकषायाणां मन्द्रोदयतः प्रमादाभावोऽप्रमत्तसंयतगुणस्थानम् । नोकषाया हास्यादयः षट् वेदत्रयश्च । अन्तर्मुहूर्त्तस्थितिकमिदम् ।। ___ स्थितिघातरसघातगुणश्रेणिगुणसंक्रमापूर्वस्थितिबन्धात्मकानामर्थानां विशुद्धिप्रकर्षादपूर्वतया नि. वर्तनमपूर्वकरणगुणस्थानम् । प्रचुरमानाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाभिधकरणेन तनूकरणं स्थितिघातः । प्रचुररसस्य तेनैव करणेन तनूकरणं
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy